SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ त्रिलोकबन्धवे तस्मै केवलज्ञानभानवे । नमः श्रीवर्धमानाय निर्धूताखिलकर्मणे ॥ १ ॥ चतुर्थः त्रैराशिक व्यवहारः । इतः परं त्रैराशिकं चतुर्थव्यवहारमुदाहरिष्यामः । तत्र करणसूत्रं यथा - त्रैराशिकेऽत्र सारं फलमिच्छासङ्गणं प्रमाणाप्तम् । ु इच्छाप्रमयोस्साम्ये विपरीतेयं क्रिया व्यस्ते ॥ २ ॥ पूर्वार्धोद्देशकः । दिवसे स्त्रिभिस्तपादैर्योजन षटुं चतुर्थभागोनम । गच्छति यः पुरुषोऽसौ दिनयुतवर्षेण किं कथय ।। ३ ।। G व्यर्धाष्टाभिरहोभिः क्रोशाष्टांशं स्वपञ्चमं याति । पङ्गसपश्च मागैर्वर्षैस्त्रिभिरत्र किं ब्रूहि ॥ ४ ॥ अङ्गलचतुर्थभागं प्रयाति कीटो दिनाष्टभागेन । मेरोर्मूलाच्छिखरं कतिभिरहोभिस्तमाप्नोति ॥ ५ ॥ कार्षापणं सपाद निर्विशति त्रिभिरहोभिरर्धयुतैः । यो ना पुराणशतकं सपणं कालेन केनासौ ॥ ६ ॥ "कृष्णागरु सत्खण्डं द्वादशहस्तायतं त्रिविस्तारम् । क्षयमेत्यङ्गलमह्नः क्षयकालः कोऽस्य वृत्तस्य || ७ || स्वर्णैर्दशभिस्सार्धेर्द्रोणाढककुडब मिश्रितः क्रीतः । वरराजमाषवाहः किं हेमशतेन सार्धेन ॥ ८ ॥ JP, Kand M road स for स्व. G *B reade सत्कृष्णागरु खण्डं.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy