SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-२० । २१ २५ प्रकाशवदेकगूढरसनागगद्याणके बहुसुवर्णवद्भस्मघटमध्ये सूचिकोष्ट्रदुग्धवदित्यादिदृष्टान्तेन विशिष्टावगाहनशक्तिवशादसंख्यातप्रदेशेऽपि लोके वस्थानमवगाहो न विरुध्यते । यदि पुनरित्यंभूतावगाहनशक्तिर्न भवति तद्यसंख्यातप्रदेशेष्वसंख्यातपरमाणूनामेव व्यवस्थानं, तथा सति सर्वे जीवा यथा शुद्धनिश्चयेन शक्तिरूपेण निरावरणा: शुद्धवुद्धकस्वभावास्तथा व्यक्तिरूपेण व्यवहारनयेनापि न च तथा प्रत्यक्षविरोधादागमविरोधाच्चेति । एवमाकाशद्रव्यप्रतिपादनरूपेण सूत्रद्वयं गतम् ॥२०॥ अथ निश्चयव्यवहारकालस्वरूपं कथयति । व्याख्या । "दव्वपरिवरूवो जो" द्रव्यपरिवर्तरूपो यः "सो कालो हवेइ ववहारो" स कालो भवति व्यवहाररूप: । स च कथंभूत: “परिणामादी लक्खो" परिणामक्रियापरत्वापरत्वेन लक्ष्यत इति परिणामादिलक्ष्यः । इदानों निश्चयकालः कथ्यते:-"वट्टणलक्खो य परमट्ठो” वर्तनालक्षणश्च परमार्थकाल इति । तद्यथा-जीवपुद्गलयोः परिवर्तो नवजीर्णपर्यायस्तस्य या समयघटिकादिरूपा स्थितिः स्वरूपं यस्य स भवति द्रव्यपर्यायरूपो व्यवहारकालः । तथाचोक्तं संस्कृतप्राभृतेन-"स्थितिः कालसंज्ञका" तस्य पर्यायस्य संबन्धिनी याऽसौ समयघटिकादिरूपा स्थितिः सा व्यवहारकालसंज्ञा भवति न च पर्याय इत्यभिप्रायः । यत एव पर्यायसंबन्धिनी स्थितिर्व्यवहारकालसंज्ञां भजते तत एव जीवपुद्गलसंबन्धिनीपरिणामेन पर्यायेण तथैव देशान्तरचलनरूपया गोदोहनपाकादिपरिस्पन्दलक्षणरूपया वा क्रियया तथैव दूरासन्नचलनकालकृतपरत्वापरत्वेन च लक्ष्यते ज्ञायते यः स परिणामक्रियापरत्वापरत्वलक्षण इत्युच्यते । अथ द्रव्यरूपनिश्चयकालमाह । स्वकीयोपादानरूपेण स्वयमेव परिणाममानानां पदार्थानां कुम्भकारचक्रस्याधस्तनशिलावत्, शीतकालाध्ययने अग्निवत्, पदार्थपरिणतेर्यत्सहकारित्वं सा वर्तना भण्यते । सैव लक्षणं यस्य स वर्त्तनालक्षण: कालाणुद्रव्यरूपो निश्चयकालः, इति व्यवहारकालस्वरूपं निश्चयकालस्वरूपं च विज्ञेयम् । कश्चिदाह "समयरूप एव निश्चयकालस्तस्मादन्यः कालाणुद्रव्यरूपो निश्चयकालो नास्त्यदर्शनात् ।" तत्रोत्तरं दीयते-समयस्तावत्कालस्तस्यैव पर्यायः, स कथं पर्याय इति चेत् पर्यायस्योत्पन्नप्रध्वंसित्वात् । तथाचोक्तं “सम उप्पन्न पधंसी" स च पर्यायो द्रव्यं विना न भवति, पश्चात्तस्य समयरूपपर्याय
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy