SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृकम् ॥ पञ्चदर्शनखण्डनम् ॥ ॐ। नैयायिकदर्शने तावत् प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्तसिद्धान्ता-ऽवयव-तर्क-निर्णय-बाद-जल्प-वितण्डा-हेत्वाभास-छल-जाति-निग्रह-स्थापना(स्थाना)न्येते षोडशपदार्था अभिहिताः । तत्र हेयोपादेयप्रवृत्तिरूपतया येन पदार्थपरिच्छत्तिः क्रियते तत् प्रमीयतेऽनेनेति प्रमाणम् । तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्धा । तत्रेन्द्रियार्थसन्निकर्पोत्पन्न ज्ञानमत्र्यपदेश्यमव्यमिचारि व्यवसायात्मकमिति प्रत्यक्षम् । तत्रेन्द्रियार्थयोर्य सम्बन्धस्तस्मात् यदुत्पन्नं–नाभिव्यक्तं; ज्ञानं-न सुखादिकम्; अव्यपदेश्यमिति-व्यपदेश्यत्वेन शाब्दत्वप्राप्तेः; अव्यभिचारि-न द्विचन्द्रज्ञानवद् व्यभिचरतीति; व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षम् । __ तत्रास्य प्रत्यक्षता न बुद्धयते । तथाहि-यत्रात्मा अर्थग्रहणं प्रति साक्षाद् व्याप्रियते तदेव प्रत्यक्षम् । तच्चाऽवधि-मनःपर्याय-केवलात्मकम् । एतच्च परोपाधिद्वारेण प्रवृत्तेरनुमानवत् परोक्षमित्युपचारप्रत्यक्षं तु स्यात् , नोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । __ अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति त्रिधा । तत्र कारणात् कार्यानुमानं पूर्ववत् । कार्यात् कारणानुमानं शेषवत् । सामान्यतोदृष्टं तु चूतमेक विकशि(सितं दृष्ट्वा पुप्पिताश्चूता जगतीति । यदि वा, देवदत्तादौ गतिपूर्विकां स्थानात् स्थानान्तरावाप्तिं दृष्ट्वा आदित्येऽपि गत्यनुमानमिति । तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकम् । तया विना कारणस्य कार्य प्रति व्यभिचारात् । यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः तद्यथा-भविष्यति शकटोदयः कृत्तिकादर्शनादिति । तदुक्तम् अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ।। [ त्रिलक्षणकदर्थन ] अपि च प्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्याप्यप्रामाण्यमिति । प्रसिद्धसाधात् साध्यसाधनमुपमान 'यथा गौर्गवयस्तथा' । अत्र च संज्ञासज्ञिसंवन्धप्रतिपत्तिरुपमानार्थस्तथापि सिद्धायामन्यथानुपपत्तौ अनुमानस्य लक्षणत्वेन तत्रैवान्तर्भावात् पृथक्प्रमाणन्वमनुपपन्नमेव । अथ नास्त्यन्यथानुपपत्तिस्ततो व्यभिचारादप्रमाणतोपमानस्य ॥
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy