SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीमेरुतुङ्गसूरिसंदृब्धः तथा अनग्निमनिकेतं तमेकाहावसथाश्रयम्' । विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥१॥ ___ -मार्कण्डेयपुराणे [८७.२] रुचिस्तोत्रे ।। तथा अहिंसकः सत्यवक्ता सर्वसङ्गपराङ्मुखः । ब्रह्मचारी सवैराग्यो भिक्षुबौद्धमते गुरुः ॥ अतः सारमितिमहाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥१॥[त्रिशष्टि.श.पु., २.३.८९६] तथा क्षमा-मार्दवार्जव-मुक्ति-[6A]तप-संयम-सत्य-शौचाकिश्चन्य-ब्रह्मचर्यरूपः सर्वज्ञप्रणीतो दविधो धर्मः । तथाहि अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दया दमः क्षान्तिः सर्वैषां धर्मसाधनम् ॥१॥ -याज्ञवल्क्यस्मृतौ[१.१२२] ॥ तथा अहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥ यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः । वृथा खादन्ति मांसानि नैष धर्मः प्रदर्श्यते ॥ सुरा मत्स्या मधु मासमासवाः कृशरौदने । धूर्तेः प्रवर्तितं ह्यतन्नत वेषु कल्पितम् ॥ कामान्मोहाच लोभाच्च लोक्यमेत(लोके ह्येत)त् प्रवर्तितम् । विष्णुमेव हि जानन्ति सर्वयज्ञेषु ब्राह्मणाः ।। पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् । याज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ॥ यच्चापि किञ्चित् कर्तव्यमन्यच्चोक्षैः सुसस्कृतम् । महासत्त्वै शुद्धभावैः सर्व देवाहमेव तत् ॥ इति श्रीमहाभारते शान्तिपर्वणि तुलाधारजाजलिसवादे । १. मुद्रिते तु "हारमनाश्रमम्' इति पाठ · । --
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy