SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS एवं श्रीभरुकच्छवर्यनगरालङ्कारचूडामणे नूतो मुग्धजनोचितेन मयका भक्तिस्तवेनामुना | संसाराम्बुनिधौ विभो निरवधौ मज्जन्तमत्राणकं देव श्रीमुनिसुव्रतोद्धर तपाकूपार मामानतम् ||४०| ( २ ) श्रीदेवकुलादिनाथ -स्तवनम् श्रीसारोदय गणि-कृतम् श्रीमन्तमादीश्वरमादरेण तं स्तुवे परात्मानमनन्तसंविदम् । यः साम्प्रतं देवकुलाश्रमे सतां हितार्पणैर्दर्शयति स्वमंशतः ॥१॥ न की सम्प्रीतिर्न हि विदुरतायाः प्रकटनं न चातुच्छा वाञ्छा विषयजसुखे न व्यसनिता । प्रयुक्ते मां स्तोत्रे जगदधिपतेरेव भवतः परं सर्वाभीष्टमथननिपुणं नाथ सहजम् ||२|| विभो दायं दायं भवसुखमभीष्टं शिवसुखं प्रदत्से वात्सल्याज्जिन निजपदोपास्तिसजुषाम् । प्रसिद्धो नीरागस्तदपि विजयेथास्त्वमथवा न मादृक्षैक्षं विलसितमहो दैवतमिदम् ||३|| तथा यौगं योगं निरुपमतपोजापविधिभि स्त्वमभ्यासीर्व्यासीत्त्वयि स हि यथा कर्ममलहृत् । धराद्याः षट्कायाः पडपि ऋतवः पञ्चविषया स्तवैतन्माहात्म्याज्जिन यदनुकूलत्वमगमन् ॥ ४ ॥ 100
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy