SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ७५.] -प्रवचनसारःयित्वेन सकलार्थसार्थात्मकस्य प्रवचनस्य सारभूतं भूतार्थस्वसंवेद्यदिव्यज्ञानानन्दखभावमननुभूतपूर्वं भगवन्तमात्मानमवाप्नोति ॥ ७५ ॥ गाथासमाप्तिः॥ - इति तत्त्वदीपिकायां श्रीमदमृतचन्द्रसूरिविरचितायां प्रवचनसारवृत्तौ चरणानुसूचिकाचूलिकानामकस्तृतीयः श्रुतस्कन्धः समाप्तः ॥३॥ . लहुणा कालेण स्तोककालेन । यः किं करोति । बुज्झदि यः शिष्यजनो बुध्यते जानाति । किम् । सासणमेयं शास्त्रमिदं किं नाम । पवयणसारं सम्यग्ज्ञानस्य तस्यैव ज्ञेयभूतपरमात्मादिपदार्थानां तत्साध्यस्य निर्विकारखसंवेदनज्ञानस्य च तथैव तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनस्य तद्विषयभूतानेकान्तात्मकपरमात्मादिद्रव्याणां तेन व्यवहारसम्यक्त्वेन साध्यस्य निजशुद्धात्मरुचिरूपनिश्चयसम्यक्त्वस्य तथैव च व्रतसमितिगुप्त्याद्यनुष्ठानरूपस्य सरागचारित्रस्य तेनैवसाध्यस्य खशुद्धात्मनिश्चलानुभूतिरूपस्य वीतरागचारित्रस्य च प्रतिपादकत्वात्प्रवचनसाराभिधेयम् । कथंभूतः सः शिष्यजनः सागारणगारचरियया जुत्तो सागारानागारचर्यया युक्तः । आभ्यन्तररत्नत्रयानुष्ठानमुपादेयं कृत्वा बहिरङ्गरत्नत्रयानुष्ठानं सागारचर्या श्रावकचर्या । बहिरङ्गरत्नत्रयाधारेणाभ्यन्तररत्नत्रयानुष्ठानमनागारचर्या प्रमत्तसंयतादितपोधनचर्येत्यर्थः ॥ ७५ ॥ इति गाथापञ्चकेन पञ्चरत्नसंज्ञं पञ्चमस्थलं व्याख्यातम् । एवं 'णिच्छिदसुत्तत्थपदो' इत्यादि द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन शुभोपयोगाभिधानश्चतुर्थान्तराधिकारः समाप्तः ॥ __इति श्रीजयसेनाचार्यकृतायां तात्पर्यवृत्तौ पूर्वोक्तक्रमेण ‘एवं पणमिय सिद्धे' इत्यायेकविंशतिगाथाभिरुत्साधिकारः । 'ण हि णिरवेक्खो चागो' इत्यादि त्रिंशगाथाभिरपवादाधिकारः । ततः परं 'एयग्गगदो समणो' इत्यादिचतुर्दशगाथाभिः श्रामण्यापरनामा मोक्षमार्गाधिकारः । ततोऽप्यनन्तरं 'णिच्छिदसुत्तत्थपदो' इत्यादिद्वात्रिंशद्गाथाभिः शुभोपयोगाधिकारश्चेत्यन्तराधिकारचतुष्टयेन सप्तनवतिगाथाभिश्चरणानुयोगचूलिका नामा तृतीयो महाधिकारः समाप्तः॥३॥ क्रियासे संयुक्त हुआ [एतत् शासनं] इस भगवन्तप्रणीत उपदेशको [बुध्यते ] समझता है, [सः] वह [लघुना कालेन ] थोड़े ही कालमें [प्रवचनसारं] सिद्धान्तकाके रहस्यभूत परमात्मभावको [प्रामोति ] पाता है । भावार्थ-जो कोई शिष्यजन निर्मल ज्ञान दर्शनमें स्थिर होके श्रावक अथवा यतिभावको प्राप्त हुआ संक्षेप विस्ताररूप अर्थोसे गर्भित श्रुतज्ञानको पहले यथावत् (जैसेका तैसा) जानकर, आत्माको अनुभवता हुआ, इस भगवत्प्रणीत उपदेशको समझता है, वह पुरुप सकल पदार्थोका सूचक इस प्रवचन सिद्धान्तका सारभूत स्वसंवेदन ज्ञानगम्य सच्चिदानंद पूर्वमें नहीं अनुभव किया था, जिसका ऐसे भगवन्त आत्माको पाता है ।। ७५ ॥ __ इति श्रीपांडे हेमराजकृत श्रीप्रवचनसार सिद्धान्तकी बालावबोधभाषाटीकामें चारित्र अधिकार पूर्ण हुआ ॥ ३ ॥
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy