SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आयसप्तशती । २०१ कठिनो वा न । चिरकालावस्थायी वा न । अर्थान्तरन्यासमाह — वर्षाणां पाषाणो. ऽपि । करकेति यावत् । अत्यन्तकोमलः खल्पकालावस्थायी च । एवं चैतादृशातिशयितकोपकरणे रसवत्ताहानिरेव भवित्रीति ध्वन्यते । तेन चैनं परिहृत्य प्रसन्ना भवेति ॥ 'येनैतादृशक्लेशादिकं भवति तदपेक्षाकरणमनुचितम् इति वादिनीं सखीं नायिका वक्ति रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानर्घः । खमेनेव हि विहितो नयनमनोहारिणा तेन ॥ ४९९ ॥ रोदनमिति । हे सखि, एतद्रोदनं सम्यक् । किं बहु । वक्तव्यमित्यर्थः ॥ मरणमपि मम समीचीनम् । नयनमनः खाधीनतासंपादकेन । पक्षे नयनमनोव्यापाराभावसंपादकेन । खप्नेनेव तेन नायकेन विहितः । लिङ्गविपरिणामेन रोद• नेऽप्येतदन्वेति । रोदनादिकं खप्ने सम्यगिति स्वप्न विवेचकाः । खप्ने केवलमनो व्यापारस्य सत्त्वेऽपि नयनव्यापारविशिष्टस्य तस्याभावान्नात्र दोषः ॥ नायिका सखीं वक्ति रोषेणैव मया सखि वक्रोऽपि ग्रन्थोऽपि कठिनोऽपि ऋजुतामनीयतायं सद्यः खेदेन वंश इव ॥ ५०० ॥ रोषेणेति । हे सखि, वक्रोऽपि प्रन्थिलोऽपि कठिनोऽप्ययं नायको मया क्रोधेनैव सद्यः ऋजुतां खेदेन वेणुरिव प्रापितः । खेदेन वेणोर्वक्रताद्यपगच्छतीति काष्ठर्जुतासंपादनविदः ॥ सखी नायिकां वक्ति - रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे । रञ्जयति स्वयमिन्दुं कुनायकं दुष्टदूतीव ॥ ५०१ ॥ 1 रजनीमिति । इयं पितृप्रसूः सायंसंध्या रात्रिमुपनेतुं चन्द्रसमीपं नेतुमादावुपतस्थे । स्वयं चन्द्रं दुष्टदूती दुष्टनायकमिव रजयति । रक्तरूपवन्तम् । पक्षेऽनुरागवन्तम् । करोति । एवं च संध्यात्वेन जगद्वन्द्यत्वेऽप्येतादृशानुचितकार्यकारित्वम्, तत्र का वार्तान्यासाम् । अतः खयमेव नायकानुनयो विषेय इति ध्वन्यते ॥ इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्ययार्थदीपनया समेता रकारव्रज्या ।
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy