SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ २०० काव्यमाला | सखी नायिकां वक्ति राजसि कृशानि मङ्गलकलशी सहकारपल्लवेनेव | तेनैव चुम्बितमुखी प्रथमाविर्भूतरागेण ॥ ४९५ ॥ 1 1 1 राजसीति । हे कृशानि प्रथमं कौमारप्रभृति संजातप्रीतिमता । पक्षे रागो लौहित्यम् । तेनैव । नायकेने ति भावः । चुम्बितवदना रसालपल्लवेन मङ्गलकलशीव राजसि । एवं च नान्यत्र मनो बन्धनीयमिति ध्वन्यते । यद्वा तेनैव । निकटस्थितेनैवानेनेति भावः । राजसि राजिष्यसि । चिरकालीनैतत्संगतिनचिता । किं तु नवीनानुरागवत्संगतिरत्यन्तोचितेति व्यज्यत इति वा दूती नायिकां वति ॥ गुणवत्संगतिकरणमेवोचितमिति सखी नायिकां वक्ति— रूपगुणहीनहार्या भवति लघुघूलिरनिलचपलेव । प्रथयति पृथुगुणनेया तरुणी तरणिरिव गरिमाणम् ॥ ४९६ ॥ रूपेति । रूपं च गुणाश्च तैहींनेन हार्या तत्संगतिमती । पक्षे रूपरूपो यो गुणस्तदभाववता हर्तुं योग्या । तरुणी । वायुचञ्चला धूलिरिव लघुर्मवति । पृथवो गुणा यस्य तेन नेया । पक्षे महत्तरगुणैः । नौकेव गौरवं प्रथयति । एवं चाचेतastra गतिस्तत्र का वाच्या सचेतन इति भावः ॥ सखी नायकं वक्ति रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे | सस्मितसलज्जमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥ ४९७ ॥ रागेति । विरहक्रमेण मन्दमन्दं मन्दाक्षं हीर्यत्र । एतादृशे नवे रागे । 'विजृम्भित-' इति पाठे विरहविशेषणम् । स्मितहसितलज्जासहितं विलोकनमिष्टं सिद्धं कथयति । एवं चाचिरमेवानया सह सङ्गस्तव भावीति ध्वन्यते ॥ कुपितनामिकां दूती वक्ति रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा । वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥ ४९८ ॥ रोषोऽपीति । रसः धारादिः । पक्षे जलम् । तद्वतीनाम् । एवं चान्यासामन्यादृशी गतिरिति भावः । रोषोऽपि । अपिना कर्कशत्वाद्यौचित्यमावेद्यते ।
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy