SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आयसी । १९९ अवन्ति, ते पुरुषाः केशा इव जडाः पाण्डुरभावेऽपि वार्षकेऽपि बाल एक। एवं च केत्यन्तं लालितास्ते यदि न खसुखदुःखाभिशास्तदा तेऽत्यन्तं मुड़ा एक अतो न तदसत्कर्तव्यतया दुःखं मन्तव्यमिति व्यज्यते ॥ एतत्कायोग्यस्याप्यस्य प्रभुणैतत्कार्य दत्तमिति कश्चित्कंचिद्वकि यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्वाचस् । किं कुर्मस्तन्निहितं धनुःपदे देवराजेन ॥ ४७९ ॥ यन्नियतेति । यनियतं गुणेन मौर्व्या । पक्षे चातुर्यादिना । शून्यम् । यत्र वंशजम् । वंशो वेणुः । पक्षेऽन्वयः । यचेत्यपरं नित्यविनाशि | पक्षे नित्यं निर्वाणं विनाशो यस्मात् । तद्देवराजेनेन्द्रेण । देवराजपदेनानिवारणीयत्वमावेद्यते । | कोदण्डस्थाने स्थापितम् । तत्र वयं किं कुर्मः । एवं चैतादृशस्याधिकारदानानौचियेsपि प्रभुणा खमत्या कृतत्वान्नास्माकमपराध इति ध्वन्यते ॥ एकस्यामासक्तमन्यस्यामनासक्तं नायकं काचिद्वति या दक्षिणा त्वमस्यामदक्षिणो दक्षिणस्त्वमितरस्याम् । जलधिरिव मध्यसंस्थो न वेलयोः सदृशमाचरसि ॥ 8८०. ॥ या दक्षिणेति । या दक्षिणानुकूला । त्वयीति भावः । अस्यां त्वमदक्षिणोऽन नुकूलः । पक्षे दक्षिणदिक्संस्थायां दक्षिणदिक्संस्थो नेत्यर्थः । तदितरस्यां दक्षि णोऽनुकूलः । पक्ष उत्तरदिक्संस्थायामित्यर्थः । किमेतावतेत्यत आह-मध्यसंस्थ सन्नुभयत्र समानपक्षपाती । पक्षे मध्यदेशस्थः । वेल्योर्जलचिरिव सहस्रं नाचरसि । डलयोरैक्याज्जडधिरिवेत्यनेन तादृशविषमाचरणमज्ञस्योचितं न तव विज्ञस्येति ध्वन्यते । 'योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥' इत्यत्रेवात्रेदंशब्दस्य तच्छदार्थकता ॥ 1 नायं नायकस्त्वामुपभोगं विना त्यक्ष्यतीति काचित्कांचिद्वतियुगपज्जघनोरःस्तनपिधानमधुरे त्रमास्मितार्द्रमुखि । लोलाक्षि नैष पक्नो विरमति तव वसनपरिवर्ती ॥ ४८१ ॥ युगपदिति । एककालं जघनोरः स्तनस्य मदाच्छादनं तेन मधुरे सुन्दरे । उव्वामिताभ्यां निग्धवदने । आईपदेन रिसते सुधारूपत्वमावेवते । लोकशि
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy