SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ तथा जल्पन्ति । तथा केचन उत्सूत्रं शास्त्रविरुद्धमिदमिति जानन्तोऽपि मतं स्वाभिप्रेतमेव प्ररूपयन्ति । तत्र वयं किं कुर्मः १ यत्तेऽज्ञाः परिहृतपयसः परिहृतं त्यक्तं पयो मधुरमुग्धं यैस्ते तथा भूत्वा यदि मूत्रं प्रस्रवणं स्वरुच्या पीयन्ते तर्हि पिबन्तु, का नो हानिरित्यर्थः ॥ ४ ॥ पश्यसि किं न मनःपरिणामं निजनिजगत्यनुसारं रे । येन जनेन यथा भवितव्यं तद्भवता दुर्वारं रे, अनु ॥ ५ ॥ व्याख्या - हे चेतन त्वं निजनिजगत्यनुसारं जाविनी या स्वकीया स्वकीया गतिर्जन्मान्तरप्राप्तिः तस्या अनुसारं सदशं वर्तमानं । जनानां मनःपरिणामं हृदयाकूतं । किं न पश्यसि केन कारणेन न विलोकयसि ? स्वचेतसा तद्विलोक्य माध्यस्थ्यं जज । कोऽत्र परमार्थ इत्याह--येन हेतुना येन जनेन यथा जवितव्यं येन केनचिदनिर्दिष्टनामधेयेन जतेनावश्यं विपाकेन वेदितव्यनिका चितकर्मवता प्राणिना यथा येन सुखित्वडुः खित्वसुरनरनैरयिकत्वादिना च प्रकारेण भवितव्यं नियमेन विष्यत्येव तस्य तथा जवनं । तन्नियतजा विजवनं जवता त्वयोपायोल्लापिना दुर्वारं पुष्करनिवार्यमिति माध्यस्थ्यमेव जनीयमित्यर्थः ॥ ५ ॥ रमय हृदा हृदयंगमसमतां संवृणु मायाजालं रे । वृथा वदसि पुल परवशतामायुः परिमितकालं रे, अनु० ॥ ६ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy