SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ व्याख्या - प्राज्यशक्तिस्पृशः महाशक्तिसमन्विताः । श्रहन्तो जगत्रय विजयकरणसमर्था जिनेश्वरा अपि । किं प्रसह्य किं क प्रसह्य बलाद्देहादिसामर्थ्यात् । कस्यचिद्धर्मोद्योगं धर्मोद्यमं कारयेयुः श्रप्रवर्तमानं प्रवर्तयेरन्न प्रवर्तयेयुर्जनानिति शेषः । किं तु किं तर्हि कुर्युरित्याह- शुद्धं यथार्थस्वरूपं यथायोग्यं यथा हितप्रापकं निर्दोषं भवति तथारूपं उपदेशं विधिनिषेधोजयात्मकं धर्ममार्गकथनं दद्युः जिनेश्वराः कुर्युः । यत्कुर्वाणाः यदईऽपदिष्टं कुर्वाणा विदधाना नव्यजना दुस्तरं दुःखेन तरणीयं नवसागरं निस्तरन्ति नितरां सुखेन पारं गच्छन्तीत्यर्थः ॥ ४ ॥ तस्माददासीन्यपीयूषसारं वारं वारं दन्त सन्तो लिहन्तु । श्रानन्दानामुत्तरङ्गत्तरङ्गैर्जीव निर्यज्यते मुक्तिसौख्यम् ॥ ८ ॥ व्याख्या - हन्तेत्यामंत्रणे हे सन्तो जो जोः सुसजनाः । तस्मादुक्तहेतुतः । औदासीन्यपीयूषसारं औदासीन्यं प्रोस्वरूपं माध्यस्थ्यं तदेव पीयूषमजरामरारोग्यविधायिनी सुधा तस्य यत्सारं तत्त्वपरीक्षणे ग्रहणादरे चातिवर्य दाढय स्थैर्य चेति यावत् तत् । वारं वारं भूयो भूयो लिहन्तु समास्वादन्तां । कुत एवमुपदिशतीत्याह- यद्यस्मादौदासीन्यसारसमास्वादनाजीवाः जीवनिरायुरादिप्राणान् धारयनिर्वर्तमाननवेऽप्यास्तां मोक्षप्राप्तावित्यपेरर्थः । आनन्दानामाहादविशेपाणां । उत्तरंगत्तरंगैः उदधिकाधिकोपर्युपरिसमुच्छलनिः तरंगैः सुखोल्लासलहरीजिः । मुक्तिसौख्यं मोदसुखस्वभावं । जुज्यते समास्वाद्यते प्राप्यते तर्हि तेन माध्यस्थ्यमेव सेवनीयमित्यर्थः ॥ ए ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy