SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ लाटानां यदु अडुपल्लाणं रूढं तदन्यविषये थिल्लिरित्युच्यते, शिविका इति वा, शिविका-कूटाकाराच्छादितो ज़म्पानविशेषः, सन्दमाणिया इति वा, सन्दमाणिया-पुरुषप्रमाणो जम्पानविशेषः ?, भगवानाह-नायमर्थः समर्थः, पादविहारचारिणस्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुमन् ! ॥ 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा महिपा इति वा खरा इति वा घोटका इति वा?, इह जात्या आशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा?, भगवानाहहन्त ! सन्ति, न पुनस्तेषां मनुजानां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥'अस्थि णं भंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुषु गाव इति वा, गाव:-स्त्रीगव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा ?, हन्त! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीघ्रमागच्छन्ति ॥'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुपु सिंहा इति वा, सिंह:-पञ्चाननः, व्याघ्रा इति वा, व्याघ्रः-शार्दूल:, वृका इति वा, द्वीपिका इति वा द्वीपिका:-चित्रकाः, ऋक्षा इति वा, परस्सरा इति वा, परस्सरो-ाण्डः, शृगाला इति वा, बिडाला इति वा, शुनका इति वा, कालशुनका इति वा, कोकन्तिका इति वा, कोकन्तिकालुकडिकाः, शशका इति वा, चिल्लला इति वा, चिल्लल-आरण्यक: पशुविशेष: ?, भगवानाह-हन्त ! सन्ति, न पुनस्ते परस्परस्या तेषां वा मनुजानां काञ्चिदाबाधां वा प्रबाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥'अत्थि णं भंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुपु कुरुंषु शालय इति वा ब्रीय इति वा गोधूमा इति वा यवा इति वा तिला इति वा इक्षव इति वा?, हन्त! सन्ति न पुनस्तेषां मनुष्याणां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥ "अत्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुंरुषु कुरुषु-स्थाणुरिति वा कण्टक ' इति वा हीरमिति वा, हीरं-लघु कुत्सितं तृणं, शर्करेति वा, शर्करा-कर्क
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy