SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ ॐ बहवो ज्योतिषिका नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन्! यथा तद् अचिरोद्गतं शरदि सूर्यमण्डलं यदिवा यथैतद् उल्का-5 ३प्रतिपत्ता १ सहस्रं यथा वा दीप्यमाना विद्युत् अथवा यथा निर्धूमज्वलित उज्वल:-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्य-6 उत्तरकुरु ययः प्राकृतत्वात् , ततः सर्वेषामेपो द्वन्द्वः समासः, कथम्भूता एते ? इत्याह-निद्धतधोयेयादि, निर्मातेन-नितरामग्निसंयोगेन । वर्णनं यद् धौत-शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां-विकसितानां पुत्राः ये च मणिरत्रकिरणाः यश्च उद्देशः२ जात्यहिङ्गुलकनिकरस्तद्रूपेभ्योऽप्यतिरेकेण-अतिशयेन यथायोग वर्णतः प्रभया च रूपं-स्वरूपं येषां ते निर्मातधौततप्ततपनीयकिंशु- सू० १४७ काशोकजपाकुसुमविमुकुलितपुखमणिरत्नकिरणजात्यहिङ्गुलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिपिका अपि तुमगणा अनेकबहुविविधविसापरिणतेनोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावप्रतिरूपाः ५॥ 'उत्तरकुराए णं कुराए इत्यादि, उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवश्चित्राङ्गका नाम द्रुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! यथा तत् प्रेक्षागृहं विचित्रं-नानाविधचित्रोपेतम्, अत एव रम्यं-रमयति मनांसि द्रष्ट्रणामिति रम्यं, बाहुलकात् कर्त्तरि यप्रत्ययः, वराश्च ताः कुसुमदाममालाश्व-प्रथितकुसुममाला वरकुसुमदाममालास्ताभिरुज्वलं देदीप्यमानत्वाद् वरकुसुमदाममालोज्वलं, तथा भास्वान्-विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुलोपचारस्तेन कलितं भास्वन्मुक्तपुष्पपुजोपचारकलितं, ततः पूर्वपदेन विशेषणसमासः, तथा विरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि प्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगल्भ-अतीव परिपुष्टं विरल्लितविचित्रमाल्यश्रीसमुदयप्रगल्भं, तथा प्रन्धिर्म-यत् सूत्रेण प्र- ॥२६७॥ * थितं वेष्टिमं यत्पुष्पमुकुट इव उपर्युपरि शिखराकृत्या मालास्थापनं पूरिम-यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सवातिमं यत्पुष्पं पुष्पेण है SAMBABAMC4064
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy