SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ तैलादिरूपो यस्य तत् पर्याप्तस्नेह, “धणिउजालिए' इति धणियं-अत्यर्थमुज्वालितम्, अत एव तिमिरमर्दकं-तिमिरनाशकं, पुनः किंविशिष्टमित्याह-कणगनिगरणकुसुमियपारियातगवणप्पगासे' कनकस्य निगरणं कनकनिगरणं गालितं कनकमिति भावः कुसुमितं च तत्पारिजातकवनं च कुसुमितपारिजातकवनं ततो द्वन्द्वसमासस्तद्वत्प्रकाश:-प्रभा आकारो यस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम् , एतावता समुदायविशेषणमुक्तम् , इदानीं समुदायसमुदायिनोः कथञ्चिद्भेदभे)द इति ख्यापयन् समुदायविशेषणमेव विवक्षुः समुदायिविशेषणान्याह-कंचणमणिरयणे'त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथम्भूताभिर्दीपिकाभिः? अत आह-काञ्चनमणिरत्नानां काञ्चनमणिरत्नमया विमला:-स्वाभाविकागन्तुकमलरहिता महार्हा-महोत्सवार्हाः विचित्रा-विचित्रवर्णोपेताजी दण्डा यासां ताः काञ्चनमणिरत्नविमलमहार्ह विचित्रदण्डास्ताभिः, तथा सहसा-एककालं ज्वालिताश्च ता उत्सर्पिताश्च वर्चुत्सर्पणेन सहसाप्रज्वालितोत्सप्पिताः, स्निग्धं-मनोहरं तेजो यासां ताः स्निग्धतेजसः, तथा दीप्यमानो-रजन्यां भाखान् विमलोऽत्र धूल्याधपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलग्रहगणसमप्रभाः, ततः पदद्वयपवयमीलनेन कर्मधारयसमासः, सहसाप्रज्वालितोत्सर्पितस्निग्धतेजोदीप्यमानविमलग्रहगणसमप्रभास्ताभिः, तथा वितिमिरा: करा यस्यासौ वितिमिरकरः स चासो सूरश्च वितिमिरकरसूरस्तस्येव यः प्रसरति उद्द्योत:-प्रभासमूहस्तेन 'चिल्लियाहिं'ति देशीपदमेतद् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा-अभिरमणीया ज्वालोज्वलपहसिताभिरामास्ताभिः, अत एव शोभमानाभिः शोभमाना:, तथैव दीपशिखा अपि द्रुमंगणा अनेकबहुविविधविश्रसापरिणतोद्योतविधिनोपेताः, कुशविकुश विशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत् प्रतिरूपा इति ४॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy