SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ पण्णत्ता, तंजहा-पजत्तगा य अपज्जत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपन्ना, तत्थ णं जे ते पजत्तगा एएसिणं वण्णादेसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिज्जाइं जोणिप्पमुहसयसहस्साई पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा” इति, अस्य व्याख्या-कृष्णमृत्तिका-कृष्णमृत्तिकारूपा, एवं नीललोहितहारिद्रशुक्लभेदा अपि वाच्याः, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदामका जीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, | 'पणगमत्तिया' इति नद्यादिपूरप्लाविते देशे नद्यादि पूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका तदासका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् ।। 'से किं तमित्यादि ॥ अथ के ते खरवादरपृथिवीकायिकाः ?, सूरिराह-खरबादरपृथिवीकायिका अनेकविधाः प्रज्ञप्ताः, चत्वारिंशद्भेदा मुख्यतः प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशद्भेदानाह, तंजहा–'पुढवी'त्यादिगाथाचतुष्टयम् । पृथिवीति 'भामा सत्यभामावत्' शुद्धपृथिवी नदीतटभित्त्यादिरूपा १, चशब्द उत्तरापेक्षया समुच्चये, शर्करा-लघूपलशकलरूपा २, वालुका-सिकता ३, उपल:-टङ्काद्युपकरणपरिकर्मणायोग्यः पाषाण: ४, शिलाघटनयोग्या देवकुलपीठाद्युपयोगी महान् पाषाणविशेष: ५, लवणं-सामुद्रादि ६, ऊषो यद्वशादूषरं क्षेत्रम् ७, अयस्ताम्रपुसीसकरूप्यसुवर्णानि-प्रतीतानि १३, वो-हीरक: १४, हरितालहिङ्गुलमनःशिलाः प्रतीताः १७, सासगं-पारदः १८, अञ्जनं सौवीराअनादि १९, प्रवालं-विद्रुमः २०, अभ्रपटलं-प्रसिद्धम् २१, अभ्रवालुका-अभ्रपटलमिश्रा वालुका २२, 'वायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानलात् मणिविधानानि च-मणिभेदाश्च बादरपृथिवीकायमेदत्वेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति-गोमेज्जए य' इत्यादि, गोमेजकः २३, 'चः समुच्चये, रुचक: २४ अङ्क: २५
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy