SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ यदि नाम स्वकृतकर्मफलविपाकमनुभवतां शरणं न कोऽपि सम्पद्यते, तथाऽपि तद्वेदने द्वितीयः सहायमात्रं कश्चिद् भविष्यति, एतदपि नास्तीति दर्शयितुमशरणत्व भावनाऽनन्तरमेकत्व भावनामाह[ अथ एकत्वभावना ] एक्को कम्माई समज्जिणेइ भुंजइ फलं पि तस्सेक्को । एक्कस्स जम्ममरणे परभवगमणं च एक्कस्स ॥ सयणाणं मज्झगओ रोगाभिहओ किलिस्सइ इगो । सयणोऽवि य से रोगं न विरिंचइ नेय अवणेइ ॥५६॥ सुगमे । नवरं 'न विरिंचइ' त्ति न विभज्य गृह्णाति, नाप्यपनयति । तथामज्झम्मि बंधवाणं सकरुणसद्देण पलवमाणाणं । मोत्तुं विहवं सयणं च मच्चुणा हीरए एक्को ॥ पत्तेयं पत्तेयं कम्मफलं निययमणुहवंताणं । को कस्स जए सयणो ? को कस्स व परजणो एत्थ ? | स्वकृत कर्मफलं ह्यनुभवतां प्राणिनां यदा कोऽपि विभागं न गृह्णाति नापि तद्वेदनं निवारयितुं शक्नोति तदा कः कस्य स्वजनः परजनो वा, ? न कश्चित्, मोहविलसितमात्रमेवेदमिति भावः ॥ अथ सहानुयायी कोsपि स्यात्, | तदपि नेत्याह ॥ ४५ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy