SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः ॥ प्रशस्तिः ॥ भवभावना प्रकरणे श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणितलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥१॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामाऽस्ति । एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुंगत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । - सम्यगज्ञानविशुद्ध' संवरतपस्स्वाचारचर्यानिधिः, शान्तः श्रीजयसिंहसूरिरभवन्निःसंगचूडामणिः ।।३।। रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः ॥४॥ श्रीवीरदेवविवुधैः सन्मंत्राद्यतिशयप्रवरतोयैः । द्रम इव यः संसिक्तः कस्तद्गुणकीर्तने विवुधः ? ॥५॥ तथाहि-आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वाऽपि मुदं व्रजन्ति परमप्रायोऽतिदुष्टा अपि यद्वक्त्रांबुधिनियंदुज्ज्वलवचापीयूषपानोद्यतैर्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥३॥ कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभोस्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणः । १. संयमतपः ने० जे० ॥२ °तमदस्तै-मु०॥ ॥४७८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy