SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरणे किंचित् सुखमस्ति, यदपि राजादयः केचिदात्मनस्तन्मन्यन्ते तदपि मिथ्याभिमानमात्रोपकल्पितमेव, नतु तत्त्वत इति दर्शयति मनुष्याणां चतसृषु अवस्यासु एकस्यामपि सुखाभावः चउसु पि अवत्थासु इय मणुएसु वि विचिंतयंताणं । नत्थि सुहं मोत्तूणं केवलमभिमाणसंजणियं | ___गताथैव ॥ नन्यागमे मनुष्याणां दश दशाः श्रूयन्ते, अत्र तु चतस्र एव ताः प्रोक्ता इति कथं न विरोधः ? इत्याह मणुयाण दस दसाओ जाओ समयम्मि पुण पसिद्धाओ। अंतव्भवंति ताओ एयासु वि ताओ पुण एवं ॥३१५।। ___ याः पुनः समये दश दशा मनुष्याणां प्रसिद्धास्ता एतास्वपि चतसृष्ववस्थास्वन्तर्भवन्तीति न विरोधः, न हि बालतरुणवृद्धत्वेभ्योऽन्यत्र काचिद्दशा वर्तत इति भावः । कथं पुनस्ता दश दशाः समयेऽपि प्रसिद्धाः ? इत्याह-'ताओ पुण एवं ति ताः पुनर्दश दशा एवं-वक्ष्यमाणगत्या विज्ञेया इति । ता एवाह ॥ २६४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy