________________
भवभावना प्रकरणे
समस्तीह भवावर्त्तपुरे मोहराजो नाम नरेन्द्रः, ततो राज्ञा सकौतुकं किंचिदौत्सुक्यमवलम्ब्य प्रोक्तम्भगवंस्ततः ततः ?, केवलिनाऽभ्यधायि - महाराज ! तस्य नरपतेरतीव वल्लभः सदा सन्निहितो गवलगरलव्यालजीमूतकान्तिः प्रकृतिसमुद्धतात्मा समुन्नतहृदयो विकटगतिर्मिथ्याभिमानो नाम महासुभदः समस्ति, येनाऽऽक्रान्तमूर्त्तयः प्राणिनोऽमी विदधत्यवस्तुष्वपि वस्तुवुद्धिं विकल्पयन्ति क्षणभंगुराण्यपि स्थेयांसि, पश्यन्त्यसारमप्यात्मानमिन्द्रचक्रवर्तिभ्योऽप्यधिकं, ( ग्रं० १०००० ) नृत्यन्ति सोन्मादं, गायंति सोत्कण्ठं, न निरीचन्ते समदृष्टया, निष्ठीवन्ति निजस्कन्धस्याप्युपरितनभागेन, भ्रमन्ति विकटं, गणयन्ति तृणवत् परं सर्वथा विडम्बनाप्रायशब्दाद्युपभोगप्रमत्ता न चेतयन्त्यात्मानं परित्यजन्ति धर्मकृत्यानि, ततः परलोकवार्ता मप्यचिन्तयन्तः कुर्वन्ति, तास्ताः संविग्नजनशोचनीयाः प्राकृतजनोपहासपदवीसमापन्नाश्चेष्टाः, ततः प्रथमं स मिथ्याभिमानसुभटस्तेन राज्ञा धनदश्रेष्ठिगृहे पुत्रजन्मसमये प्रेषितः, ततो नगरान्निर्गच्छता महाराजेन यद् गीतनर्त्तनादिचेष्टितं तस्य श्रेष्ठिन गृहे दृष्टं तत् सर्व तत्प्रेरितेनैव तेन श्रेष्ठिना विहितं नात्मवशेन; अपरं च तस्यैव मोहमहानरेन्द्रस्यान्तरङ्गः शोकनामा सुभटः समस्ति यद्वशीकृता एते देहिनः प्रकृष्टसत्त्वनिधयोऽपि सद्यः प्रकटयन्ति दैन्यं कुयन्ति शिरांसि ताडयन्ति उरांसि, मूर्च्छन्ति मुहुर्मुहुः, लुठन्ति शुद्धवसुधातले,
केवलिना कथितं
अन्तरंग
पात्राणां
स्वरूपम्
॥ २५० ॥