SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ गुणाभासत्वमेवेत्यादि बोधिभावनायां भावयित्वा ग्रन्थान्ते भावनाभावनफलं प्रतिपादयता प्रन्थकारपरमर्षिणा येन भावेन ज्ञानिना कर्मबन्धाभावः स भावः सुन्दरतया निरूपितः । अधिगतश्रीजिनशासनानां जीवाना महता पुण्यप्राग्भारेण परमकारुणिकैः पूर्वमहर्षिभिरियं भवभावना' तत्समानि चाऽन्यान्यनेकानि ग्रन्थरत्नानि विषमेऽप्यस्मिन् काले करकमलं यावत् प्रापितानि । एतेषामध्ययनाध्यापनादिना तत्त्वज्ञानमात्मपरिणतिरूपमेव फलम् । अधीतेष्वपि प्रन्थेष्वेतादृशेषु न चेदध्यात्मदशा जागृयात् तर्हि विफल एव ग्रन्थाभ्यासायासोऽवसेयः । चन्दनभोक्तुर्नागरस्य चन्दनभारवाहिनः खरस्य च निदर्शनमिहाऽवधेयम् । ग्रन्थस्य प्राप्ति , परिचयः, परिशीलनमित्यादि सर्व ग्रन्थार्थानुशीलनरुपायां परिणतावेव सफलं भवेद् । इत्थं ग्रन्थार्थानुशीलनं भव्यात्मनां परमात्मस्वरूपमुन्मीलयेदिति दृढमाशावशं गत: जैन उपाश्रयः, वापी [ द. गुज ] वि. सं. २०४२, श्रावणकृष्णकादश्यां रवौ वासरे ॥ - मुनिचन्द्रगुप्तविजयः ओगणीस
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy