SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ -: प्रस्तावना : भवभावनाग्रन्थपरिचयः प्रयोजनश्च भावभैषजिकैर्दिष्टं भेषजं शुद्धभावनम् । भवरोगभिदे भूयाद् भव्यानां 'भवभावना' ॥ * अनन्तोपकारिभिराकालं परार्थव्यसनिभिर्जगद्वन्द्यचरणद्वन्द्वारविन्दैः श्रीमत्तीर्थकृभिरनादिनिधने चतुर्गतिमयेऽस्मिन्नसारे संसारे स्वकर्मवशेनानादितः परिभ्रमतां प्राणिनां भवभ्रमणं निवारयितु प्रवर्तित मिदं धर्मतीर्थम् । अनेकभवार्जितपुण्यप्राग्भारेण जगज्जन्तुजाताभयप्रदं तत्समासाद्य श्रीमतां तीर्थकृतां परमतारकवचनैर्भवस्वरूपं विज्ञाय भवो विग्नानां भवभ्रमणोच्छेदायाप्रतिमप्रज्ञाप्रकर्षान्वितैरनेकशास्त्रकृत्परमर्षिभिरनेके ग्रन्था विरचिता । परमोपकारिग्रन्थकारपरमर्षीणा पुण्यप्रसादतः समुपलब्धेपु ग्रन्थेषु मलधारगच्छीयश्रीमहेमचन्द्रसूरिभिः खोपज्ञवृत्त्या विनिर्मित मिदं भवभावनाप्रकरणं' सुविदितमेव विदुषाम् । अम्यान्वर्थनाम्नवाभिधेयं प्रतीयते । द्वादशसहस्त्राधिकश्लोकप्रमाणपन्थेऽस्मिन् प्राधान्येन भवभावना सविस्तरं निरूपिता | अपरा अपि भावनारतदनुकूलत्वेन निरूपिता इति प्रकरणमिदं भवभावनात्वेनोच्यत इति स्वयं ग्रन्थकृतैवाभ्यधायि । इतः प्राक प्रकाशितेऽस्य प्रथमे भागे प्रथमाऽनित्या भावना भाविता । तत्पूर्व 'संसारभावणाचालणीइ सोहिज्जमाणभवमग्गे। पावंति भव्यजीवा न ठं व विवेयवरग्यणं ।४॥ अनया गाथया प्राधान्येन भवभावनाया विधेयतामुपदयं “अनित्यादिरूपतया निःसारोऽयं संसारो, दुःखहे तवश्चेह योपिदादिभावाः सकलदेहिनां, निजनिजकार्या तेर ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy