SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ है उस्सग्गववायाणं जहट्ठियसरूवजाणणे जत्तो। कायवो बुद्धिमया सुत्तणुसारेण णयणिउणं॥७८१॥5 सामान्योक्तो विधिरुत्सग्र्गो, विशेषोक्तस्त्वपवादः । तत उत्सर्गापवादयोर्यथास्थितस्वरूपज्ञाने यलः कर्त्तव्यो बुद्धिमता पुरुषेण सूत्रानुसारेण निशीथाध्ययनादितत्प्रतिपादकागमानुरोधेन नयनिपुणं नैगमादिनयविचारसारमिति ॥ ७८१॥ Sil अथ सर्वनयाभिमतमुत्सर्गापवादयोरेकमेव तत्त्वतःस्वरूपमङ्गीकृत्याह;हैदोसा जेण निरुभंति जेण खिजंति पुवकम्माइं।सो खलु मोक्खोवाओ रोगावत्थासु समणंव ॥७८२॥ है। दोपा मिथ्यात्वादयो येनानुष्ठानेनोत्सर्गरूपेणापवादरूपेण वा सेव्यमानेन निरुध्यन्ते सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते; तया येन श्रीयन्ते समच्छिद्यन्ते पर्वकर्माणि प्राग्भवोपात्तानि ज्ञानावरणादीनिः स खलु स एव मोक्षोपायो मोक्षमार्गः दृष्टान्तमाह-रोगावस्थासु व्याधिविशेषरूपासु शमनवच्छमनीयौषधमिव । यथा हि "उत्पद्यते हि सावस्था देशकालामयान् प्रति । यस्यामकृत्यं कृत्यं स्यात् कर्म कार्य च वर्जयेत् ॥१॥” इति वचनमनुसरन्तो गुरुलाघवालोचनेन निपुणवैद्यक-14 कशास्त्रविदो वैधास्तथा तथा चिकित्सा प्रवर्तयन्तो रोगोपशमनं जनयन्ति; तथा गीतार्थास्तासु तासु द्रव्याद्यापत्सु चित्रान् अपवादान् सूत्रानुसारेण समासेवमाना नवदोपनिरोधपूर्वकृतकर्मनिर्जरणलक्षणफलभाजो जायन्त इति ॥ ७८२॥ अथोत्सर्गापवादयोस्तुल्यसंख्यत्वमाह;उन्नयमवेक्ख इयरस्स पसिद्धी उन्नयस्स इयराओ। इय अन्नोन्नपसिद्धा उस्सग्गववाय मो तुल्ला ॥७८३॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy