SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ | मूड़ंगलियारक्खणगयचित्तो हत्थिणा समुक्खित्तो । मिच्छादुक्कडसंवेगवुडिओ गतिदुगक्खवणं ४२७॥७ वैमाणियसुहमाणूससुद्धाचारपरिपालणाणिरओ। सत्तट्ठजम्ममज्झे चक्की होऊण संसिद्धो ॥ ४२८ ॥८॥ देवो नामानगारः साधुरेक आसीत् । कीदृश इत्याह- कर्मगुरुः प्रवलचारित्रमोहः शीतलः शिथिलो विहारेण साधुमामाचारीरूपेण । ततो निर्द्धधसो मूलगुणोत्तरगुणातिचाराभीरुः सन् इत्यतोऽपराधाद् मृत्वा भ्रान्तः पर्यदितः संसारकान्तारे इति ॥ ४२१ ॥ १ ॥ एतदेव भावयितुमाह- शीतलविहारत उक्तरूपात् खलुर्वाक्यालंकारे, भगवदाशातना तीर्थकरलाघवानयनरूपा | नियोगेन निश्चयेन सम्पद्यते । शीतलविहारेण हि तेषु तेषु प्रमादस्थानेषु समापद्यमानं साधुमालोक्य तथाविधलोकैर्नूनमयमसमंजसरूपो व्यवहार एतच्छास्त्रकारैरेव निरूपित इति मनसि सम्प्रधार्य परिभावयन् भगवति जिने भृशमवज्ञाका - रकस्तानि तान्याशातना पदानि समाचरति, इत्यतः शीतलविहारिणः साधोः स्वयमेवाज्ञोल्लंघनहेतुभावाद् नियतमेव भगवदाशातना जायते । ततो भगवदाशातनातो भवः संसारोऽनन्तोऽपरिमाणः क्लेशबहुलः शारीरमानसवाधाभिभूतो भवति यतो भणितमागमे ॥ ४२२ ॥ २ ॥ तदेव दर्शयति - तीर्थकर प्रवचनश्रुतं तत्र तीर्थकरञ्चतुर्वर्णश्री श्रमण संघप्रसूतिहेतुः पुरुषविशेषो वृषभादिः प्रवक्ति वस्तुतत्त्वमिति प्रवचनं संघः श्रुतं द्वादशाङ्गम्, आचार्य युगप्रधानं, गणधरं तीर्थकर शिष्यप्रधान शिष्यरूपं, महर्द्धिकं
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy