________________
ताएतस्मिन्-कपिगमे, कीशमित्याह-इहलोकाधनपेक्षम्-ऐहलौकिकपारलौकिकफलाभिलापविकलम् । तथा, लोकोत्त
रभावरुचिमारं-जैनशासनसूचितदयादानाद्यनवद्यभावश्रद्धानप्रधानम्, लौकिकभावेषु हि दृढविपर्यासानुगतेषु श्रद्धायां व्यावत्तविपर्याससद्धर्मवीजभावानुपपत्तेरिति ॥ २३१॥
एतदेवाधिकृत्याह;पायमणखेयमिणं अणुहवगम्मं तु सुद्धभावाणं । भवखयकरंति गरुयं बुहेहि सयमेव विन्नेयं ॥ २३२॥ का प्रायो-बाहुल्येन बहुमानस्वरूपेणेत्यर्थः, अनाख्येयम्-आख्यातुमशक्यमिदं-धर्मवीजं परेभ्यः। एवं तसंवेद्यमप्येत
स्यादित्याशंक्याह-अनुभवगम्यं तु-स्वसंवदेनप्रत्यक्षपरिच्छेद्यं पुनः शुद्धभावानाम्-अमलीमसमानसानाम् । तथा, भवक्षयकर-संसारव्याधिविच्छेदहेतुरिति-अस्मात् कारणाद् गुरुकं-सर्वजनाभिमतचिन्तारत्नादिभ्योऽपि महद् बुधैः स्वयमेव निजोहापोहयोगतो विज्ञेयम् , इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तं च-"इक्षुक्षीरगुडादीनां,
माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं, सरस्वत्याऽपि शक्यते ॥ १॥ २३२ ॥ हा अवैतद् गुरुकत्वमेव भावयति;
जं दवलिंगकिरियाऽणंता तीया भवम्मि सगलावि । सवेसिं पाएणं णय तत्थवि जायमेयंति ॥२३३॥ यद् यस्माद् द्रव्य लिङ्गक्रियाः-पूजाद्यभिलाषेणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभाव