SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 22 सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य - तत्वमुक्ताकलापः नित्यभूतिस्त्रिगुणसमधिका सत्वयुक्ता तथैव ज्ञातुईयावभासो मतिरिति कथितं संग्रहाद्रव्यलक्ष्म॥७ सर्वार्थसिद्धिः त्रिगुणसमाधिका त्रिगुणद्रव्यादन्या । सत्वयुक्ता सत्वाख्यगुणविशेषवती । त्रिगुणान्यत्वं कालादेरप्यस्तीति तद्व्यवच्छेदोऽनेन कृतः। एतावन्मात्रेण त्रिगुणसाधर्म्यमित्यभिप्रायेण तथैवेत्युक्तं; रजस्तमस्समानाधिकरणसत्वस्यापि * तत्र सत्वात् । 'निर्मलत्वात्प्रकाशकं' इत्यादि समानमिति वा। ज्ञातु यावभासो मतिः-अहमिदं जानामीत्यहमर्थाश्रयतया *'सिध्यन् सकर्मक: प्रकाशो मतिरित्यर्थः । तादृशावस्थयापि तद्विशिष्टं गृह्यते । द्रव्यलक्ष्म सामान्यतो विशेषतश्चेति शेषः ॥ ७ ॥ इति द्रव्यादीनां लक्षणानि. आनन्ददायिनी गतीनां' इत्यादौ उपासनार्थमौपाधिकाणुत्वादिकमुक्तमिति भावः । अहमर्थाश्रयतया इति--सकर्मकःप्रकाशो मतिरिति लक्षणं । तदर्थस्तुस्वव्यतिरिक्तप्रकाशनियततत्कत्वं । नचात्मादौ स्वव्यतिरिक्तप्रत्यक्तादिप्रकाशकत्वादतिव्याप्तिः; आत्मवदेव तस्यापि स्वेनैव प्रकाशात् । अत एव शतदूषण्यां तेषां धर्माणां ज्ञानदृष्टान्तेन स्वप्रकाशतोक्तिः॥७॥ इति द्रवमादीनां लक्षणानि. भावप्रकाशः * तत्र-त्रिगुणे* सिध्यन्निति-एतेन मूले ज्ञातुरिति न लक्षणान्तः पाति ; किंतु धर्मिव्यतिरिक्तधर्मभूतज्ञानसद्भावे प्रमाणसद्भावबोघनार्थम् । लक्षणं तु स्वभिन्नविषयसंयुक्तत्वमेवेति द्योत्यते ॥ - -- - -
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy