SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सर:] दव्यादिलक्षणानि 21 तत्वमुक्ताकलापः प्रकृतिरिह गुणैस्सत्त्वपूर्वैरुपेता कालोऽब्दाद्याकृतिस्स्यादणुरवगतिमान जीवईशोऽन्य आत्मा।संप्रोक्ता सर्वार्थसिद्धिः त्रिगुणस्य रजस्तमसी पृथग्लक्षणे ; सत्वं तु बन्धकत्वेन विशेषितं । कालोब्दाद्याकृतिरिति उपाधिकृतविभागैरब्दादिव्यवहारविषय इत्यर्थः । तत्तत्परिणामवान् काल इति पक्षोऽपि वक्ष्यते। ईश्वरात् अचेतनादणोश्च व्यवच्छेदाय अणुरवगतिमानित्युक्तं । इशोन्य आत्मा अणुव्यतिरिक्तश्चेतन इसर्थः। जीवे विभुत्वोक्तिः ईश्वरे अणुत्वोक्तिश्च अन्यपरेति सूत्राद्युक्तं । संप्रोक्ता तत्परैश्शास्वैरिति शेषः। आनन्ददायिनी. सत्वस्य ; शुद्धसत्वेऽतिव्याप्तेः । किञ्च सत्वपूर्वैरिति बहुवचनानुपपत्तिः अन्यपदार्थबहुत्वाभावात् इति चेत् ; तत्राह-त्रिगुणस्येत्यादिना । 'सर्वादीनि सर्वनामानि' इत्यत्रेव सत्वस्याप्यन्यपदार्थान्तर्भावान्न बहुवचनानुपपत्तिरिति भावः। कालस्य विकाराभावपक्ष आह --उपाधीति। आकृतिशब्दस्य 'इतिराकारणाह्वाने' इत्यादौ व्यवहारे आयूर्वस्य कृञोऽनुशासनाद्वयवहारार्थत्वं वक्तुं युक्तं : व्यवहारविषयत्वमब्दत्वाधुपाधेरप्यस्तीत्याह- तत्तदिति । ईश्वरादिति—अणुत्वेनेश्वरल्यावृत्तिः । अवगतिमानित्यचेतनव्यावृत्तिः । लक्ष्म्या ईश्वरकोटित्वान्नाव्याप्तिः। अन्य इत्यस्य जीवलक्षणलक्षितादन्यत्वोक्तौ तदन्तर्गतावगतिमद्विशेषणवैयर्थ्यमित्याह-अणुव्यतिरिक्तश्चेतन इति । जीवे इति-अणोरणीयान् महतो महीयान् ' ' स चानन्त्याय कल्पते' इत्यादेः ; । 'हृद्यपेक्षया तु मनुष्याधिकारत्वात् ' 'निचाय्यत्वादेवं व्योमवच्च' 'उत्क्रान्तिगत्या
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy