SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ 592 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः कृष्येरन् एकदेशस्थिते च वर्षति बलाहके *मुहूर्तमात्रान्मही शतयोजना सिच्येत । अतिकुशलानामपि धन्विनां दक्षिणोत्तरदेशावस्थित *स्थिरलक्ष्यवेधो न स्यात् । *शरविहङ्गादीनामपि धरणीसममेव वायुना नोदनान्नोक्तप्रसङ्ग इति चेन्न तथाविधस्य आनन्ददायिनी भावः । ननु शरविह(शरतर)ङ्गादि क्षिप्तं तीव्रतरेण वायुना नोदनात् यत्र स्वगन्तव्यदेशः तत्र गच्छतीति नैते दोषा इति शङ्कतेशरविहङ्गादीनामिति । तथाविधस्येति-तथाच पूर्वोक्तदोषास्स्युरिति भावः । भावप्रकाशः इति सिद्धान्तशेखरे श्रीपत्युक्तं दूषणं विशदयति-* एकदेशस्थिते चेत्यादि । * मुहूर्तमात्रात् शतयोजनेत्यादियोजनशतानि भूमेः परिमाणं षोडश द्विगुणितानि । (पं. सि. १३-१८) इति द्विशतोत्तरत्रिसहस्रयोजनः परिधिरिति वराहमिहिरोक्तया त्रिसहस्रयोजनः परिधिरित्यपि अन्येषां पक्षम्स्यात् ; तत्पक्षानुसारेणाचार्यैरुक्तम् । * लक्ष्यवेधो न स्यादिति -- दैवज्ञविलासे प्रतिदिनमधः पतन्तीं प्राहुजैनाः नभस्यनन्तेऽस्मिन् । इति अधःपतनं प्रस्तुत्य भ्रमणपक्षे पूर्वोक्तदूषणान्युपन्यस्य ; यद्यवंगमा धात्री निश्चलपक्षण वियति खचरेण । संवृत्ता भवति तथा यदि मन्दं मन्दमुत्पतत्येषा ॥ इति उत्पतनपक्षे एतद्दषणमुक्तम् । एतावता ज्योतिषोक्तदूषणान्युपन्यस्तानि ; अथ आधुनिककल्पकानां तदुक्तदूषणोद्धारं शङ्कते* शरविहङ्गादीनामपीति । तत्र भुवो भ्रमणं किं वायुना किं स्वत इति विकल्प्य प्रथमपक्षे दूषणमाह-* तथाविधस्येति ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy