SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ सरः] भूभ्रमणपक्षदूषणम् सर्वार्थसिद्धिः च स्वदेशपश्चिमभाग एव तेषां निपातस्स्यात् 'उड्डीनाथ पक्षिणो न कुलायमासीदेयुः । प्रत्यङ्कुखं च गच्छतां दुःखेनापि न संनि आनन्ददायिनी क्षेपः परभागे पातप्रसङ्गश्चेत्यर्थः । उड्डीनाश्चेति — तीव्रतरं भ्रमणेन प्रतिक्षणं कुलायादिपुरो धावन्ने (नि) वानुधावता दूरस्थ एव स्यादित्यर्थः । प्रत्यङ्मुखं पततामिति –—–— यत्र पक्षी तत्र कुलायादेस्सन्निध्यसम्भवादिति भावः । प्राङ्मुखमिति—- उद्देश्यदेशस्य पूर्वन्यायेन दवीयस्त्वादिति भावप्रकाशः 1 * निपातस्स्यादिति । अयमर्थः - इषवोऽभिनभस्समुज्झिताः निप्रतन्तस्स्युरपांपतेर्दिशि । (धीवृ. तं मिथ्या ४२) इत्यभिहितो लल्लाचार्येण । 2 * उड्डीनाश्चेति - यदि च भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः ? 591 इति तत्पूर्वार्धेन तेनैवोक्तोऽयमर्थः । यद्येवं श्येनाद्याः न खात्पुनः स्वनिलयमुपेयुः । इति ' भ्रमति भ्रमस्थितेव' इत्यादिश्वोकोत्तरार्धेनोक्तो वराहमिहिराचायेणापि (पं. सि. १६-५) । मम्बरच विहगाः स्वनीड मासादयन्ति न खलु भ्रमणे घरित्र्याः । इति श्रीपतिनापि (सिद्धान्तशेखरे ) । किञ्चाम्बुदा अपि न भूरिपयोमुचस्स्युः देशस्य पूर्वगमनेन चिराय हन्त |
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy