SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 60 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः तथा सम्बन्ध्यनेकत्वं स्वाभीष्टे च समत्वतः ॥ इति द्रव्यसाधनम् आनन्ददायिनी बाधकं न भवति तथा सम्बन्ध्यनेकत्वं-~-घटसम्बन्धिनां रूपरसादीनामनेकत्वं बाधकं न भवति । यद्वा ----यथैकस्य वस्तुनः प्रतिसम्बन्धिनो-विरोधिनो बहवस्सन्ति तथेत्यर्थः । स्वाभीष्टे-क्षणिकत्वबुद्धौ । अन्यथा वेद्याकारैर्बुद्धेरपि भेदःस्यादिति भावः ॥८॥ इति द्रव्यसाधनम् इह वादिनां बहूनि कर्तव्यानि भवन्ति--स्वपक्षप्रदर्शनं तत्र साधनोपन्यासः साधनसमर्थनं प्रतिवाद्युद्भावितस्वपक्षदूषणोद्धारः परपक्षक्षणसमर्थनं इत्यादीनि तत्र द्रव्याद्रव्यविभागेन स्वपक्षप्रदर्शनं कृतं । प्रत्यभिज्ञाश्लोके च प्रमाणोपन्यासः । तदनन्यथासिद्धयुपपादनेन च --- क्षीणानि चक्षुरादीनि रूपादिप्वव पञ्चमु । न षष्ठमिन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥ नैक रूपाधभेदो वा दृष्टं चेन्नेन्द्रियेण तत् | अक्षानेकत्ववैयर्थ्य स्वार्थे भिन्नेऽपि शक्तिमत् ॥ भावप्रकाशः लोकावतारणार्थं च भावा नाथेन देशिताः । तत्वतः क्षणिका नैते . . . . . ॥ (बोधि+पं ३७६) इति भाषमाणो माध्यमिको वा विजयी स्यादिति भावः। एतच्च बुद्धिसरे (३३)श्लोकविवरणे-'विकल्पविषया वस्तुत्वे इत्यादिना आचार्यरेव वक्ष्यते।।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy