SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ ७६२ व्याश्रयमहाकाव्ये [कर्णराजः] आत्तावदत्तैलिभिः स इत्थं समाहितो धीतसुधारसो नु । स्थितः सितांहा अदितामितौजा दिनान्यमातानि तपःशिताङ्गः ॥१४॥ १४. स कर्णोमातान्यसंख्यानि दिनानि स्थितः । कीहक्सन् । इत्थमुक्तर्गत्यात्तावदत्तरात्ताः पूर्वमुत्तरसाधकेभ्यो गृहीता येवदत्ताः पंश्वालक्ष्म्यै प्रदत्तास्तलिभिः पूँजोपकरणैः कृत्वा सिताहा विनाशितविघ्नस्तथा तपःशिताङ्गस्तपश्चरणकृशदेहोत एवादितामितौजा अप्रतिहतासंख्यतपःप्रभावस्तथा समाहितः समाधिवानत एव धीतसुधारसो नु पीतपीयूष इव ॥ अन्येचुरच्छातनिशातबुद्धौ हित्वान्यकर्माच्छितसंशितेसिन् । अभूजहित्वा समयं स्वसामग्रिकामजाहित्व ऋतुर्घनानाम् ॥ १५॥ १५. अन्येयुर्घनानामृतुर्वर्षाकालोभूत् । किं कृत्वा । समयं स्वकालं जहित्वा त्यक्त्वाकाल इत्यर्थः । तथा स्वसामग्रिकां विद्युदादिसंपदमजाहित्वा गृहीत्वा । क सति । अस्मिन्कएँ । किंभूते । अच्छाताखण्डिता निशाता तीक्ष्णा बुद्धिर्ज्ञानं यस्य तस्मिन् । तथान्यकर्म तपस इतरद्राज्यादि कार्य हित्वांच्छितमखण्डितं संशितमसिधारातीक्ष्णं व्रतं यस्य तस्मिन् । यद्वा । अकर्मकत्वविवक्षायां संश्यति स्म संशितो व्रते यत्नवान् । अच्छितो यः संशितस्तस्मिन् ।। १ए बी सी आत्तावदत्त'. २ एतः सता. ३ ए तासितो. ४ ए. हितान्य. ५ सी डी र्मास्थित. १ए बी सी त्यात्तावदत्तरात्ताः पू. २ डी दत्ताः प. ३ डी दत्तास्त । ४ ए पूजोप. ५ ए देशोत. ६ ए तपप्र. ७ए तमुधा. ८ बी यूज ६. ९ए क्त्वा इका. १० सी डी त्वा क. ११ ए 'त्वा इच्छि. सा सीवा सित. १२ ए क्षाया स. १३ ए ससितो. १४ ए भसिता. .१५ ए 'न् ॥ .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy