________________
[ है०.४.१.३१.] अष्टमः सर्गः।
६१९ तं जिगाय शिवशाणपतिं प्राजीहयत्वकटके स च दूतैः । यं जिगीषति न कोपि चिकीपुं वाजिभियुधि न चापचिकाय॥५४॥
५४. तं शिवशाणपति शिवशाणदेशाधिपं स सिन्धुपतिर्जिगायाभिभूतान्दूतैः कर्तृभि. स्वकटके प्राजीयच्चानाययच्च । चो भिन्नक्रमे । जित्वा सदा स्वसंवकं चकारेत्यर्थः । एतेनास्य प्रभुत्वशक्तिरुक्ता । प्रचुराश्वसाधनत्वाद्वाजिभिरश्वैश्विकीपुमुपचेतुमिच्छन्तं यं न कोपि युधि जिगीषति । तथा यं कोपि न चापचिकाय नापचितं क्षीणबलं चक्रे ॥
निश्चिका(चा)य बलमस्य न कश्चिनिश्चिचीपति न चाशयमस्य । दुर्मतिस्त्वयि यदेप इयेषोवोष नः स तदियय॑नलत्वम् ॥ ५५ ॥
५५. अस्य सिन्धुपतेर्बलं पराक्रमं न कश्चिद्वलिष्ठोपि निश्चिका(चा)यैतावदिति निर्णीतवान् । एतेनोत्साहशक्तिरुक्ता । तथातिगूढहृदयत्वादस्याशयं चित्तं न कश्चिनिश्चिचीषतीशमिदमिति ने निर्णिनीषति । एतेन तु मत्रशक्तिः । अत एवैष दुर्मतिर्दुष्टाशयः संस्त्वयि विषये यद्धिंसादिकमियेषैच्छत्तन्नोस्मानुवोष दाह । अत एव तन्नोस्माकमनलत्वमग्निवामियति स्म जगामामितुल्यमभूदित्यर्थः ॥
१ए जिघाय. २ ए कीपु वा.सी कीर्षु वा. ३ ए चिषाय.
१ सी वान्तः क. २ बी चान्नायच्च. ३ ई "क्रमो जि. ४ सी डी कीऍम. ५ ए श्विद्विलि'. ६ ए बी 'लिष्टोपि. ७ डीई ति न नि'. ८ ए वानेनो. ९ए न निर्णि.