SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ [ है० ४.१.२९.] अष्टमः सर्गः । स्रजः पुष्पमाला ग्रेन्थिथ गुम्फितवान् । श्वेतत्वात्सौरभ्याच्च पुष्पमालातुल्या: कीर्तीदिशि दिशि प्रसारितवानित्यर्थः । तथा कीर्तिभिर्दिक्ष्वाशु तमिस्रमन्धकारं शशसिथ व्यनाशयो दिशो निर्मलीचकर्थेत्यर्थः । तथा कीर्तिभिर्दूरगान्दूरदेशस्थाञ्जनान्पुरस्तादिवाग्रेस्थितानिव ववणिथावोच इव । निकटस्थैरिव दूरस्थैरपि त्वं गीतकीर्तिरित्यर्थः ॥ त्वद्यशः शशसतुर्दददाते चायशः शशरतुश्च गुणांस्ते । ईर्ण्यया ववणतुस्त्वयि दोषान्सिन्धुचेदिनृपती इह दृप्तौ ॥५२॥ ५२. हे राजनिह पृथ्व्यां सिन्धुचेदिनृपती सिन्धुदेशचेदिदेशराजौ हप्तौ दर्पिप्ठौ सन्तावीय॑या त्वत्संपत्तौ चेतसो व्यागेषेण त्वधशः शशंसतुर्जन्नतुः । ते तवायशोवर्णवादं दददाते च । तथा ते गुणाञ् शशरतुश्च । तथा त्वयि विषये दोषान्ववणतुश्चै । चोत्रापि योज्यः ॥ श्रेथुः शश्रन्थुः । श्रेथिथ शश्रन्थिथ । ग्रेथुः जग्रन्थुः । प्रेथिथ जग्रन्थिय । इत्यत्र "वा श्रन्थ" [२७] इत्यादिना वैत् । एतत्संनियोगे नस्य लुन च द्विः॥ देभुः । अत्र "दम्भः" [२८] इत्येनस्य लुग्न च द्विः ॥ देभिथ ददम्मिथ । इत्यत्र “थे वा"[२९] इति वैत्तत्संनियोगे च नस्य लुग्न च द्विः ॥ अन्ये तु अन्थिग्रन्थिदस्भीनां नलोपे सति नित्यमेत्वमिच्छन्ति । नळोपं त्ववित्परोक्षायां नित्यमेव । तेन श्रेथुः । प्रेथुः । देभुः ॥ नलोपाभावे - - १ डी ईष्यया. १बी पुष्फमा . २ सी ला ग्रन्धि'. ३ सी ई शि प्र. ४ ए वी सी डी मिश्रम'. ५ ए र शिशसि. ६ ए°चकार्थे. ७ सी ति भूर्दूरदे. ८ ए °रस्थादि. ९ ए वणि'. १० ए शस.तु. ११ ईश्च च यो' १२ ए थिथः ज°. १३ डी मेवैत्व. १४ डी विति परो. १५सी व श्रे. १६ डी श्रेयतुः । थतुः । देभतुः ॥ न.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy