SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [भीमराजः] नो न देभिथ ददम्भिथ नो जग्रन्थिथार्जवमिवाच्युतगोपः। सोसि देम्भिथ पुनः किमिति त्वां संदिशन्ति यमुनातटघोषाः॥५०॥ ५०. यमुनातटघोषाः कालिन्दीतटगोकुलस्थलोकास्त्वां संदिशन्ति । कथमित्याह । हे राजन् । इवो भिन्नक्रमे । अच्युतगोप इवा. च्युतो विष्णुर्यो गोपो गोधुक्स यथा गोपगोप्यादिषु दम्भं चक्रे न चार्जवं चकारैवं त्वं नो न देभिथ न नच्छद्माकार्षीः कि तु ददभिथ । प्रथममयोगव्यवच्छेदे वाक्यम् । दम्भेन सहायोगो व्यवच्छिद्यते । द्वितीयं त्वन्ययोगव्यवच्छेदे । अन्यस्यापि दम्भो घटते । परं त्वमेव ददम्भिथेयैन्यस्य दम्भेन योगो व्यवच्छिद्यते । त्वमेव शत्रुष्वनेकधा छलं चकथैवेत्यर्थः । दम्भवानप्ययं कदाचिदार्जवमपि कृतवान्भविष्यति नेत्याह । न जग्रन्थिथार्जवं मायाविष्णुः कदाचिदपि सरलस्वभावं नो चकर्थेत्यर्थः । यद्येवं ततः किमित्याह । असि त्वं सो. च्युतगोपः । किमिति पुनः किमर्थं पुर्नर्देम्भिथान्याशरूपप्रकाशनेनाच्युतगोपो नास्मीति मायां चकर्थेत्यर्थ इति । एतेन यमुनातटघोषाणामच्युत इव भीमे भक्त्यीतशय उक्तः ॥ श्रेन्थियोच्चिचयिथापि न पुष्पं ग्रेन्थिथ सज इहाखिलदिक्षु । कीर्तिभिः शशसिथाशु तमिस्रं दूरगान्ववणिथेव पुरस्तात् ॥ ५१ ॥ ५१. हे राजंस्त्वं पुष्पं कुसुमजाति नोच्चिचयिथ नोञ्चितवान्न श्रेन्थिथापि न प्रथितवांश्च । परमिह जगत्यखिलदिक्षु कीर्तिभिः कृत्वा १ बीसीडी "सि देभि'. २ ए श्रेथियो'. ३ ए°थाश्रु त°. ४ ए बी सी डी मिश्र दू. १सी गोपादि. २ बी रैव त्व. ३ डी कार्षी किं. ४ डी त्यस्य. ५ बीई द वन्नव्यः. ६ सी ममि कृ. ७बी डीई विषु क. ८ बी हे 4 न च. ९ सी डी 'नर्देमि १० सी थे . ११ बी क्तः ॥ अन्धि. १२ बी पुप्फ कु. १३ ए 'चियथ. १४ वी न अन्थि. १५ सी अथिया । १६ डी प्रन्धित.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy