SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ है० ३.४.५५ ] सप्तमः सर्गः। ५७७ अत्राप्सीत् अतृपत् । भद्राप्सुः अपन् । इत्यत्र "स्पृशमृश" [५४] इत्यादिनों वा सिच् ॥ य आविक्षस्तमद्विक्षस्तमद्राक्षुश्च दर्पतः । तान्यघुक्षच्छरैरेष न्यकोपीत्तदसूनपि ॥ १३१॥ १३१. तान्नृपानेष दुर्लभः शरैन्य घुक्षदाच्छादितवांस्तदसूंस्तत्प्रा. णान्यकोषीदायाकृष्टवानपि । तानवधीच्चेत्यर्थः । ये नृपास्तं दुर्लभमद्विक्षन् द्विष्टवन्तः । अत एवाविक्षन्कोपात्तस्मिन्सरम्भं चक्रुः । तथा दर्पतो बलाँचवलेपात्तमद्राक्षुश्च ॥ न्यधुक्षत् । आविक्षन् । अद्विक्षन् । इत्यत्र "हशिटः" [५५] इत्यादिना सक् ॥ अदृश इति किम् । अद्राक्षुः । अनिट इति किम् । न्यकोपीत् ॥ यथाश्वोश्वमुपाश्लिक्षद्रथो रथमुपाश्लिषत् । नाचीकमत कोप्यत्रं तथौजो यमशिश्रियत् ॥ १३२ ॥ १३२. अयं दुर्लभस्तथौजो बलमशिश्रियद्यथाश्वोश्वमुपाश्लिक्षद्रथो रथमुपाश्लिषत् । भयेन युगपच्छीघ्रं संमर्दैन नाशादश्वा रथाश्च मिथ आस्फलन्नित्यर्थः । तथा यथा कोपि पत्तिरखं नाचीकमत द्रुतं नाशेन नैच्छत् । एतेनाश्वरथपत्तिनाश उक्तः ॥ अथ गजानामाह। गजतादुद्रुवत्तस्माद्यान्मूत्रमसुनुवत् । न चाचकमत स्थातुं पयास्यपि नचादधत ॥ १३३॥ १३३. स्पष्टः । किं तु तस्माद्दुर्लभात्सकाशाददुद्रुवदयामष्टा । पयांस्यपि जलानि च न चादधन्नैव पपौ ॥ १ डी भद्रा'.२ सी डी ना सिच् वा ॥. ३ ई दिवा. ४ ई ला. ५ई पास्तम. ६ वी क्षन् । आ. ७ ए स्मात्स. ८ई नि चा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy