SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ - [है० ३.४.३५ ] सममः सर्गः। ५६७ श्रीन दुःखायते यत्र वाण्या वैरायते न च । शब्दायितयशःशङ्खः सोयं श्रीजरेश्वरः ॥ १०६ ॥ १०६. सोयं प्रत्यक्षः शब्दायितयशःशः सशब्दीकृतकीर्ति. कम्बुगूर्जरेश्वरोस्ति । यत्र श्री राज्यादिलक्ष्मीन दुःखायते न्यायोत्साहादिगुणैरस्मिन्सुखेन सदा वासित्वान्न दुःखमनुभवति । न च नापि वाण्या सह वैरायते वैरं करोति । स्वभावान्मिथो विरुद्धे अपि श्रीवाण्यौ विरोधत्यागेन यत्र तिष्ठत इत्यर्थः । अनेन च यदि त्वममुं वृणोषि तदा त्वमपि श्रीरिवात्र न दुःखायसे नापि सपत्नीभिः सह वैरायसे तस्मादमुं वृणीष्वेति दुर्लभदेवी ज्ञापिता ॥ फेनायन्ते । ऊप्मायन्ते । बाप्पायन्ते । धूमौयिते । इस्यन्न "फेनोम" [३३] इत्यादिना क्यड् ॥ सुखायसे । दु.खायते । अत्र "सुखादे." [३४] इत्यादिना क्यङ् ॥ शठदायित । वैरायते । अत्र “शब्दादेः कृतौ वा" [३५] इति वा क्यड् ॥ नमस्यन्वरिवस्यंश्चाचित्रीयत तपस्यताम् ।। यश्च दुर्लभराजं तं नाम्नामुं किं वुवूषसि ॥ १०७ ॥ १०७. अमुं नाम्ना दुर्लभराज किं वुवूपसि । यश्च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । नमस्यन्नमस्कुर्वन्वरिवस्यश्च वरिवः कुर्वन्से. वमानश्च संस्तपस्यतां तपः कुर्वतां कर्मणो वृत्तावन्तर्भूतत्वादकर्मकत्वम् । तपोधनानामचित्रीयताहो राजाधिराजस्याप्यस्य कीदृग्विनय इत्याश्चर्यमकरोत् । नाना दुर्लभमिति नामनिर्देशेन दुर्लभदेवीदं झापिता १ सी डी श्रीगुर्ज. १ एसितत्वा. २ रीयन्ते २. ३ डी बायोपिरो. ४ सी मायवे. सीमायन्ते वै.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy