SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५६६ ध्याश्रयमहाकाव्ये [दुर्लभराज गहने गहनायन्ते न रोमन्थायितेणके । व्याधा अप्याज्ञया यस्य विन्ध्येशे रमसेत्र किम् ॥ १०४॥ १०४. अत्र विन्ध्येगे किं रमसे । यस्याज्ञया हेतुना व्याधा अपि मृगयाजीविनोपि गहने वने न गहनायन्ते गहनाय मृगादिवधाय पापकर्मणे न कामन्ति । अत एव किभूते गहने । रोमन्थायिता मृत्युभयाभावेन सुखितत्वाद्रोमन्थमभ्यवहृतं द्रव्यमुदीर्य चर्वितवन्त एणा मृगा यत्र तस्मिन् । एतेने तस्यातिधार्मिकत्वोक्तिः॥ पटपटीयतः । लोहितायत् । चर्मायतः । इत्यत्र "डा" [३०] इत्यादिना पित्क्यर॥ कष्टायमानः । कक्षायते । कृच्छायते । सत्रायते । गहनायन्ते । अत्र "कष्ट" [३१] इत्यादिना क्यर ॥ . रोमन्यायित । इत्यत्र “रोमन्थाद्'' [३२] इत्यादिना क्यड् ॥ फेनायन्ते बाप्पायन्ते चोप्मायन्ते च यद्विषः। धूमायितेनावुद्वोढुं किमन्धेत्र सुखायसे ॥ १०५ ॥ १०५. अग्नौ विवाहाग्निकारिकावह्नौ धूमायिते यवादिक्षेपेण धूममुहमति सत्यन्ध्रन्ध्रदेशाधिपे विषय उद्वोढुं किं सुखायसे सुखमनुभवसि । यहिष: फेनायन्ते वाष्पायन्ते चोष्मायन्ते च युद्धादिनात्यन्तं खेदितत्वाफेनान्मुखे फेनवुद्वदान्बाष्पांश्च पराभवोत्थानि नेत्रवारीयूष्मणश्च संतप्तोच्छासानुद्वमन्ति ॥ - - १५ यायते. १ सी डी यत्रास्मि'. २ बी सीडीई न यस्या'. ३ बी "ययित: ४ ए बी सी डी 'नायते. ५ सीडी न्ते यु. ६ सी डीयूष्माण'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy