SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ [है० ३.३.१०१.] सप्तमः सर्गः। ५४९ अभिक्षिपन्तो हस्ताग्रं गन्धेभाः प्रवहन्मदाः । सैन्येस्यापरिमृष्यन्तोन्योन्यं पर्यवहन्पृथक् ॥ ६८ ॥ ६८. अस्य दुर्लभस्य सैन्ये गन्धेभा गन्धप्रधाना गजा हस्तानं शुण्डाग्रभागमभिक्षिपन्त इतस्ततोभिमतं प्रेरयन्तः सन्तः पृथग्भिन्नाः पर्यवहन्समन्ताजग्मुः । यतोन्योन्यमपरिमृष्यन्तोसहमानाः। एतदपि कुत इत्याह । यतः प्रवहन्मदाः ।। पराकुर्वन् । अनुकुर्वन् । इत्यत्र "परा" [२०१] इत्यादिना परसै ॥ प्रतिक्षिपन् । अभिक्षिपन्तः । अतिक्षिपन् । इत्यत्र "प्रत्यभि०" [२०२] इ. त्यादिना परस्मै ॥ प्रवहत् । इत्यत्र "प्रादहः" [१०३] इति परस्मै । परिमृष्यन्तः । पर्यवहन् । इत्यत्र "परेमपश्च" [१०४] इति परस्मै । ययावविरमन्पथ्यारमद्भिर्नर्मबन्धुभिः । समं परिरमन्नन्योदन्तादुपरमन्त्रयम् ।। ६९ ॥ ६९. अयं दुर्लभः पथि ययौ । कीदृक्सन् । अविरमन्ननवरतं गच्छंस्तथारमद्भिः क्रीडद्भिर्नर्मबन्धुभिर्नर्मसचिवैः समं परिरमन्परिखेलं. स्तथान्योदन्तात्स्वयंवरनायिकोदन्तादन्यस्या वार्ताया उपरमन्निवर्तमानः स्वयंवरकन्यकोदन्तमेव कुर्वन् ।। कापि सोश्वमुपारंस्तेभेनारोहयत कचित । काप्यासयन रथे मित्राण्यकारयत सत्कथाः ॥ ७०॥ १५ न्येस्य प. १ए प्रावृह. २५ परिय'. ३ मस. ४वी टी 'नायको.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy