________________
[हे० ३.३.०९.)
सप्तमः सर्गः।
ज्वल्यमानो योग्निस्तेन तुल्यया शुचा कृत्वा नृपश्चामुण्डराजोगमुत्तेपे संतापितवान् । वा यद्वा । युक्तमेवैतत् । यतः केन्ये शुचाङ्गानि न वितेपिरेपि तु सर्वे सगरादयः पूर्वे महात्मानोपि पुत्रशोकेनाङ्गानि संतापितवन्त इत्यर्थः॥
वितपमानानि । उत्तपमानयो । स्वेले कर्मणि । अङ्गानि वितेपिरे । अङ्गमुत्तेपे। अत्र "युदस्तपः" [८७] इत्यात्मने ॥
राजा दर्शयते स्मपीस्तीर्थमस्मरयच्च तम् ।
स कलिं गर्धयांचक्रे नावश्चयत तं कलिः ॥ ५६ ॥ ५६. राजा पीन्धर्मोपदेशेन शोकापनोदायागतान्मुनीन्दर्शयते स्म पश्यन्ति स्म राजानमृषयस्तान्संमुखालोकनाभ्युत्थानधर्मशुश्रू. पाउनुकूलाचरणेन राजैव प्रयुक्त स्म । तथा मुनिभ्यो धर्मश्रवणोदत्तभववैराग्यतस्तं सजानं तीर्थ पुण्यक्षेत्रमस्मरयच्च तीर्थ स्मरति स्म स तं स्मरन्तं तीर्थमेवे महाप्रभावत्वाद्यनुकूलाचरणेन प्रयुते स्मात्मसाधनार्थ प्रत्यक्षदृश्यमानप्रभावं शुक्लतीर्थ राजा सस्मारेत्यर्थः । अत एव स राजा कलिं कलिकालं गर्धयांचक एवं धर्माभिलाषणांवभयत । तथा त नृपं कलिर्नावश्चयत तदोद्भूतधर्माभिलापाच्यावनेन न प्रतारितवान् । प्रवर्धमानधर्मपरिणामोभूदित्यर्थः ॥
राजा दर्शयते स्मीन् । इत्यत्र "अणिकर्म णि" [८८] इत्यादिनात्मने ॥ भस्मृताविति किम् । तीर्थमसरयत्तम् ॥ कलिं गर्धयांधके । तं नावञ्चयत । इत्यत्र "प्रलम्मे" [८९] इत्यादिमात्मने ।
१ ए सी ते स्माषी. १५ सग.१ ए. या। स्वाङ्गक सी डी या। स्वा. ३वी पनोदेन. ४ ई देशशो'. ५ ए वप्र.६ ए ववत्वा .७ ए चत.८ ई लापोत्पादनेन. ९ ए सी ते स्माषीन्,