________________
५२९
है० ३.३.४७.] सप्तमः सर्गः।
कल्प्तास्थ प्रभवोस्माकं भृत्या वः कल्पितास्महे ।
क्रामदक्रममाणानां समझामन्हदीति ते ॥ २७ ॥ २७. स्पष्टः । किं तु । कल्सास्थ संपत्स्यध्वे । ते कुमाराः । क्रामदक्रममाणानां कामन्तश्च गच्छन्तस्तरुणा अक्रममाणाश्चाजङ्गमा वृद्धाः । तेषां हृदि चित्ते समक्रामन्संक्रान्ताः । प्रभुत्वोचिताखिल. गुणालंकृतत्वात्सचराचरलोकस्यापि चित्ते भाविप्रभुत्वेनामी प्रतिभासिता इत्यर्थः ॥ कल्सास्थ कल्पितामहे । अत्र "कृपः श्वस्तन्याम्" [१६] इति वात्मने ॥ अक्रममाणानाम् क्रामत् । इत्यत्र "क्रम." [४७] इत्यादिना वात्मने ।। अनुपसर्गादिति किम् । समक्रामन् ॥
विनये क्रममाणानां शास्त्राय क्रमते स्म धीः।।
क्रममाणा च सा तेषां पराक्रमत सर्वतः ॥ २८ ॥ २८. तेषां कुमाराणां विनय उपाध्यायस्य नम्रतादिक्रियायां क्रममाणानामस्खलितात्मनामात्मानं यापयतां वा विनयपराणां सतामित्यर्थः । धी शास्त्राय तर्कादिग्रन्थाय क्रमते स्मोत्सहते स्म तत्परा वानुज्ञाता वाभूत् । सा च तेषां धीः क्रममाणा शास्त्रार्थावगाहनास्फीतीभवन्ती संतानेन प्रवर्तमाना वामीभिरेवानुकूलाहाराद्यासवनेन पाल्यमाना वा सती सर्वतः सर्वकार्येपु परामताप्रतिहता भूदात्मानं यापितवती वोत्सहते स्म वा तत्परा वानुज्ञाता वाभूत्स्फीत्यभूद्वा संतानेन प्रावतिष्ट वा ॥
१ डी क भूत्या. २ ( त्या व को १सी कि तु क. २ बी रुणा आज ३ थी सी ई : स्वस्त° ४ बी समाका'. ५ डी नमनादि. ६ सीकीय ग्र. ७ ए ते स्म. ८ सी सेवान. ९ सी का. १० एपिभव',