SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ दह० ३.३.२५] सप्तमः सर्गः । ५२१ पमातरो व्यत्यहसन् परस्परमन्योन्यं कर्म व्यत्यपश्यंश्च । स्त्रीणां जातिस्वभावोयं यदा वालकः स्वावस्थाननुरूपां विशिष्टां चेष्टां करोति तदानन्दाश्चर्याभ्यां हसन्ति मिथ. पश्यन्ति च ।। व्यतिचिक्रीटे। व्यतिजहे । व्यत्यूहे । अत्र “क्रियाव्यति" [२३] इत्यादिनात्मनेपदम् ॥ अगतिहिसाशब्दार्थहस इति किम् । व्यतीयुः । व्यत्ययुः । व्यत्यहिनत् । व्यतिजघान । व्यत्युवाद । व्यत्यपाठीत् । व्यत्यहसन् ॥ अनन्योन्यार्थ इति किम् । व्यत्यपश्यन्परस्परम् ॥ चित्ते न्यविशत न्यास्यन्मुदं न्यास्यत विस्मयम् । सोपोहत्संशयं राज्ञोपोहतारिमनोरंथान् ॥ १२ ॥ १२. स वल्लभोद्भुतविनयशौर्यादिगुणै राज्ञः पितुश्चित्ते न्यविशेतावसत् । तथा राज्ञश्चित्ते मुदं न्यास्यत्समस्थापयत् । तथा राज्ञश्चित्ते विस्मयं न्यास्यत । तथा राज्ञश्चित्ते संशयं कीदृगयं पुत्रो भविष्यतीति संदेहमपौहञ्चिच्छेद । अत एवारिमनोरथांश्चामुण्डराजानन्तरं वयं सुखं स्थास्याम इत्यहिताशा अपौहत ॥ न्यविशत । इत्यत्र "निविशः" [२५] इत्यात्मनेपदम् ॥ न्यास्यत न्यास्यत् । अपोहत अपौहत् । इत्यत्र "उपसर्गादस्योहो वा" [२५] इति वात्मने ॥ - १ सी रकान् ॥. १ सी में वित्य. २ सी स्थानपा. डी स्थानुरू. ३ सी क्रीड । व्य. ४ सी डी व्यत्युहे ।. ५ सी शतोव. ६ सी डी दृग् पु. ७ सी हमारोह'. ८ ए सी ई रथाम्बा. ९ ई °य स्था. १० एन्यवश. ११ डी निवशः. १२५ 'स्यो वा. १३ ई नेपदम् ।।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy