SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५१० व्याश्रयमहाकाव्ये [मूलराजः] सोगात्पुरी श्रीदसमानधर्मालकासधर्मामसमानरूपः अन्वक्सरूपस्तनयोप्यमुष्य सब्रह्मचारी नलकूबरस्य ॥ १०२ ॥ १०२. असमानरूपो निरुपमरूपः स राजा श्रीदसमानधर्मा महचिकत्वादिना धनदतुल्यः सन्नलकासधर्मा सर्वयुपेतत्वाद्धनदपुरीतुल्यां पुरीमणहिलपाटकमगात्तथान्वञ्चोनुचरा अपि सरूपा रूपनेपथ्यावस्थादिभिः सदृशा यस्य सोमुष्य मूलराजस्य तनयोपि पुरीमगान् । कीहक्सन् । नलकूबरस्य धनदपुत्रस्य सब्रह्मचारी शौर्यादिगुणैस्तुल्य इत्यर्थः । यथा श्रीदा नलकूबरान्वितोलकां यात्येवं मूलराजश्चामुण्डराजान्वितोणहिलपुरीमगादित्यर्थः ।। सधर्माम् । सरूपः । अत्र "समानस्य" [१४९] इत्यादिना सः ॥ अन्ये तु धर्मादिषु नवसु वचनान्तेषु विकल्पमिच्छन्ति । सधर्माम् । समानधर्मा । सरूपः समानरूपः ॥ - सब्रह्मचारी । इति “सब्रह्मचारी" [१५०] इत्यनेन निपात्यते ॥ बुद्ध्या सदृक्षं सदृशं प्रतापैः सुतं नृपः शक्रसदृग्यधित्सत् । स्वर्गादनन्यादृश आत्मराज्येन्यादृक्षमेतन्न हि तादृशानाम् ॥१०३॥ १०३. स्पष्टम् । कि तु। न्यधित्सत्स्थापयितुमैच्छन् । स्वर्गादनन्यादृशे महा स्वर्गतुल्ये । युक्तं चैतन् । हि यस्माद्धेतोरेतत् खानुरूपे पुत्रे स्वराज्यस्य निधित्सनं तादृशानां मूलराजतुल्यानां महाराजाना नान्यादृक्षं नासदृशमुचितमेवत्यर्थः ॥ १५ सी राजेन्या'. १ सी तुल्या पु. २ ए सी डी हिलपा. ३ सी सह. ४ ए सी 'सत्य'. सीरी। स. ५ ए सी स्वानरू. ६ ती नान्यास'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy