SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये पूराः] शेषस्फटा ईषत्कुत्सिता वोष्णा: संतप्ताः । यद्वा । ईषत्कुत्सितं वोष्णं संतापो यासु ताः कुर्वन् । एवं कोष्णमित्यत्रापि समासः । तथा कदग्निवदल्पेन कुत्सितेन वाग्निनेवै क्रोडमुखमादिवराहदंष्ट्रां कदुष्णं कुर्वस्तथा कमठेन्द्रपृष्ठं कानिकोष्णमल्पेन कुत्सितेन वाग्निनेव कोष्णं कुर्वन् । कोणम् कवोष्णाः । इत्यत्र "काकवौ वोणे" [१३७] इति वा काकवी ॥ पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम् ॥ अन्यस्वग्नावपीच्छति । काग्नि कवाग्निना । कदग्निवत् ॥ अवश्यगम्ये सहितोर्जि राज्ञि श्रीसंहिते गन्तुमनस्यथागात् । प्रणन्तुकामः सततं सकामः स संततीजाः समनाः कुमारः॥९७॥ ९७. अथ नृपाणामेवमुक्तौ स कुमार आगात् । की। संतत निचितमोजो बलं यस्य सोत एव सततं सदा संगतः कामेन सम्यकामो यस्य वा स सकामः शत्रुजयेन पूर्णमनोस्थोत एव च संगतो मनसा सम्यग्मनो यस्य वा स समनाः समाहितचित्तोत एव च राज्ञि मूलराजपादान्तिके प्रणन्तुकामः । शत्रुजयाद्यवदातकर्मणि हि कृते प्रीतिविशेषोत्पादनाय पितरं पुत्रः प्रणमति । किंभूते राशि । अबश्यगम्ये पूज्यत्वावश्यमभिगम्ये । तथा संधीयते स्मं सहिता संगदोर्बलं येन तस्मिन् । तथा श्रीसंहिते विजयादिलक्ष्म्या परीव । वथा गन्तुमनसि स्वपुत्रशौर्यावलोकनाय रणं यातुकामे ।। १५ सी स्यगाधात् ।। - १एसी सितो वो'. २ ए यास्तुताः, १९ सी डी क्रोर. ४ए सी सी न् ॥ कयो . ५ सी मिना ।. ६ ए सी क । सत. • डी 'ततमारि. ८ ए सी त मिवित. ९सी शन. १० वी स्म साह ११ ए सी शेर्गक, ११ वी मीसिंहते.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy