SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४४७ [ है० ३.२.४.] षष्ठः सर्गः । मियोपद्धः स निशम्य पार्थवृत्तान्युपव्यासमुपेशगेहे । किमपतूणेन किमूपापं गुरो रणाज्ञां हि विनेति दध्यौ ॥६॥ ६. स कुमारः प्रियमुपवृद्धं ज्ञानवृद्धादिसमीपं यस्य स तथा सन्नुपेशगेहे रुद्रप्रासादसमीपे कथामण्डपादावुपव्यासं व्याससमीपे पार्थवृत्तानि शत्रुजयादिविषयाण्यर्जुनचरितानि निशम्याकर्ण्य दध्यावचिन्तयत् । किमित्याह । गुरोः पितू रणाज्ञां युद्धविषयादेशं विना हि स्फुटमुपतूणेन निषङ्गयोः सामीप्येन किमु तथोपचापं धनुःसामीप्येन च किमु । यावपितू रणाज्ञो न स्यात्तावनिरर्थकत्वाद्धनुर्विद्याभ्याससूचकेन रणार्थ पार्श्वस्थेन तूणद्वयेन चापेन च मम न किंचिदिति पूर्वमहापुरुषावदांताकर्णनोद्भवातिरिक्तरणोत्साहादचिन्तयदित्यर्थः ॥ उपप्राच्यसंस्कारम् । उपवृद्धं सेवमानः। उपवृद्धं स्पृहयन् । उपवृद्ध भक्तः । इत्यत्र "अम्" [२] इत्यादिना स्थारैम् ॥ अव्ययीभावस्येति किम् । पार्थवृत्तानि ॥ तसंवन्धिनः स्यादेरिति किम् । प्रियोपवृद्धः ॥ अत इति किम् । भधिस्त्रि ॥ अपञ्चम्या इति किम् । उपाक्षात् ॥ किमुपचापम् किमूपतूणेन । इत्यत्र “वा तृतीयायाः"[३] इति वाम् ॥ उपन्यासम् उपेशगेहे । अत्र "सप्तम्या वा" [५] इति वाम् ॥ मुगूर्जरं हेतुरनेकभारद्वाजं वरो गीतगुणस्त्रिगङ्गम् । स्थितोधिसद्भक्त्युपगूर्जरेन्द्रे स्वरीशितः पुत्र इवैष रेजे ॥७॥ ७. एष कुमारः स्वः स्वर्गस्येशितुः स्वामिनः शक्रस्य पुत्र इव - १ ए सी निसम्य. २ सी चाप गु. ३ ए सी सम्। १ए सी गयो सा. २ ए सी शान स्या'. ३ सी णार्थ पा. ४ डी किम् । .......... पार्थ. ५वी दानाक'. ६ ए सी रन् ॥ . ७ए सी सी स्वः सर्गः.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy