________________
४४६
ध्याश्रयमहाकाव्ये [चामुण्डराजः] विद्याभिः । इतरेतर संकेतयोगात्कलामिः शास्त्रैः । इत्यत्र "परस्पर" [1] इत्यादिनापुंस्यमादेशो वा ॥
परस्परमप्रतिबाधनेन गुणैः । अन्योन्यमुत्कर्पितया गुणैः । इतरेतरं संकेतयोगादीगुणैः । इत्यत्र "परस्पर" [2] इत्यादिना पुंसि स्यादेरम्वा ॥ पक्षे । देपं परस्परेण । अन्योन्यस्य भूपाम् । इतरेतरस्य विशेषान् ॥ शेषविभचयन्तानि विकल्पोदाहरणानि ज्ञेयानि । एवं च स्त्रीनपुंसकयोरमामौ द्वावादेशौ वा भवतः॥ यत्सेवमानः स्पृहयंश्च भक्तस्तथोपटद्ध विरमन्नुपाक्षात् । असावधिस्यव्यसनी तदस्योपप्राच्यसंस्कारमलं निमित्तम् ॥ ५॥
५. यदिति क्रियाविशेषणम् । यदसौ कुमारोभूत् । कीदृक् । उपवृद्धं वृद्धा ज्ञानादिवृद्धास्तेपां समीपाय स्पृहयंश्च ज्ञानाद्यर्थमभिलपन्वृद्धानां समीपस्य भक्तस्तथा बहुमानवांश्चात एव वृद्धानां समीपमासेवमानोत एव चोपाक्षात् । अक्षदेनात्र पाशकोपलक्षित द्यूतमुच्यते । तत्समीपाद्विरमन् द्यूतव्यसनानिवृत्त इत्यर्थः । यद्वा । विषयविषयिणोरभेदोपचारादक्षशब्देनेन्द्रियविषयाः शब्दरूपरसगन्धस्पर्शा उच्यन्ते । तत्समीपाद्विरमन जितेन्द्रिय इत्यर्थः । अत एव चाधिस्त्रि स्त्रीष्वव्यर्संन्यत्यासक्तिरहितः । तज्ज्ञायतेस्य कुमारस्योपप्राच्यसंस्कारं प्राच्याः पूर्वजन्मभवा ये संस्कारा वृद्धसेवादिनिरन्तराभ्यासजनिता वासनास्तेपामनन्तरपूर्वभवापेक्षया सामीप्यं कर्त अलं समर्थ निमित्तं कारणम् । यदयं स्वभावेनैव गुरुसेवापरायणत्वादिगुणोपेतस्तत्रानन्तरपूर्वभवाभ्यास एव हेतुरित्यर्थः ।।
-
-
१ सी शोसा । प. २९ तयोः गा. ३ थी न्यभू. ४ए नि एक ५ बी वली. ६ सी त १. ५ वी यऽ ए. ८ एसी सनी सला. १ 'स्कारां