________________
है. ३.१.८४.]
पभमः सर्गः।
मित्यादि शिक्षणं दुष्करमभूत् । यथा गोपैरगोधुग्भिः कर्तृभिर्गवां कर्मणां दोहो दोहासत्वेन दुष्करः स्यात् । यद्वा । यथागोपैरभूपै राजगुणविकलैर्गवां मुगं दोहो रत्नादिक्षारणं दुष्करः स्यात् ।।
गवां दोह इवागोंपैः । इत्यत्र "तृतीयायाम्" [८४] इति कर्मजा षष्ठी न समसते ॥ तृतीयायामिति किम् । दुष्करं राज्ञां भृत्यानुशासनम् ॥ कर्तरि पठ्यामपि न समास इति कश्चित् । तस्य युधः कृतौ ॥
मांसस्य तृप्तान्सोस्रस्य सुहिनान् राक्षसान्व्यधात् ।
लङ्कापतेर्दितीयो नु राज्ञां साक्षाद्धरेपिन् ।। ६९ ॥ ६९. हरेद्विषन्दैत्यत्वादिन्द्रस्य शत्रु. स पाहारी राज्ञां साक्षात्समक्षं राक्षसान्व्यधान् । किंभूतान् । अनेकारिवधेन मांसस्य तृप्तानीघाणानसँस्य रक्तस्य च सुहितान् । अतश्च राक्षसानां त॒त्यापादनलक्षणतुल्यकार्यविधानालङ्कापते रावणस्य द्वितीयो ने द्वितीय इव रावण इत्यर्थः ॥
विक्रान्तानां स्तुवानोसौ त्रस्तानां विब्रुवन्नहन् ।
राज्ञा ज्ञातान्सतां बुद्धान्यमस्येष्टः कलेमतः ॥ ७० ॥ ७०. असौ प्राहारिर्भटानहन् । कीहक्सन् । विक्रान्तानां शूराणां स्तुवानस्तथा त्रस्तानाम् । पूर्वत्रात्र च संबन्धे षष्ठी। विब्रुवनिन्दन् । तथानेकारीणां वधकत्वेन यमस्य मृत्योरिष्टः । कले रणस्य मतः संमतः । यद्वा । पापिष्ठत्वात्कलेः कलिकालस्य मतः । कीदृशान् । राक्षां साताम् शौर्यादिगुणैः प्रसिद्धान् । तथा सतां शिष्टानां बुद्धान् न्याययोधित्वादिशिष्टोचितक्षात्रधर्मः प्रसिद्धान् ।।
-
१ सी क्षण दु. २ ए सी नाणा'. ३ ए सी सर.४ ए सी तृप्तापा. ५ डी नुदिती . ६ एसी मत स.