SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ है.२.३.८४.] चतुर्थः सर्गः। ३१३ तथा वयं भृशं शीघ्रमन्तहन्मः । तथावां प्रहण्वस्तथावां परिहन्वः सामस्त्येन हिंस्व इति ॥ प्रहण्वः परिहन्वः । प्रहण्मितरां प्रहन्मि । अन्तहण्मः अन्तर्हन्मः । इत्यत्र ___ "वमि वा" [१२] इति वा णः ॥ प्रभुकार्यमिति स्फुटं प्रणिसंस्त्वमिव भयापरिनिक्षितो वदेत्कः । मदिरापरिणिंसनप्रणिन्येष्वपरानिसितपूर्वमप्रनिन्धम् ॥ २३ ॥ २३. भयापरिनिक्षितो भयेन नाश्लिष्टः प्रभुकार्य प्रणिक्षंश्चुम्बनिव सपक्षपातं स्थापयन्सन्नित्यर्थः। त्वमिव को दूत इत्युक्तप्रकारेण प्रभुकार्य स्फुटं प्रकटं वदेत्त्वां मुक्त्वा न कोप्येवं वक्तुं शक्त इत्यर्थः । नन्वेवंभाषिणः सुराष्ट्रध्वनेके दूताः सन्ति तत्किमेवं राज्ञोच्यत इत्याशङ्कयाह । मदिराया यत्प्रणिसनमास्वादनं तेन प्रणिन्येषु गर्हणीयेष्वर्थात्सौराष्ट्रपु मध्येप्रनिन्धं स्फुटत्वेन श्लाघ्य वचनमपरोनिसितपूर्व न चुम्बितमनुक्तपूर्वमित्यर्थः । मद्यपेषु सौराष्ट्रेष्वित्थं स्फुटं त्वयैवोक्तमित्यर्थः ॥ परिणिंसन परानिसित । प्रणिक्षन् परिनिक्षितः । प्रणिन्येषु प्रनिन्यम् । इत्यत्र "निसनिक्ष" [४] इत्यादिना वा णः ॥ परिहीणमतिः महीणवान्खं परियाणीयमिनः प्रयायमाणः । न स वेत्ति तव प्रयायिणां नः परियाणे परिवतिं चाप्रयाणिम् ॥ २४. अहो दूत स तवेनः स्वामी प्राहारिः परिहीणमतिः प्रनष्टज्ञानोत एव स्वमात्मानं प्रहीणवांस्त्यक्तवाननेककुकर्मकरणेन त्यक्तखमर्याद इत्यर्थः । अत एव च प्रयायमाणोस्माभिरास्कन्धमानः सन् स्वमा१ए सी र आणी'. २ सी क्ति वाम. १ बी डी येनाना'. २सी कायें प्र. ३ ए सी मुक्का न. ४ ए सी प्रनिन्ये. ५ वी रानिसि. ६ वी निस. - -
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy