SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २५४ व्याश्रयमहाकाव्ये [मूलराजः] सुरूपा विभूपितालंकृताः सधवाश्च युवतयो राजादिमङ्गल्यकर्मसु व्यामृता अभूवन्नित्यर्थः ।। विना कौसुम्भम् । विना भूपणात् । विनाङ्गरागेण । इत्यत्र "विना" [११५] इत्यादिनों द्वितीयापञ्चमीतृतीयाः ॥ श्रिया तुल्याः । रतेस्तुल्याः । पमेन समैः । इन्दोः समैः । इत्यत्रं "तु. ल्याथै" [११६] इत्यादिना तृतीयापथ्यौ ॥ दत्ताः प्रासादं पूर्वेण गोपुरस्यापरेण च । प्राक्प्रयाणादुत्सवेन हेतुना कुङ्कुमच्छटाः ॥ ७३ ॥ ७३. प्रयाणात्प्राक्प्रथममुत्सवेन हेतुना यात्रामहोत्सवाथ कुकुमच्छटा दत्ताः कुङ्कुमाम्बुना भूश्छटितेत्यर्थः । क । प्रासादं पूर्वण पूर्वाभिमुखाद्राजभवनात्पूर्वस्यामदूरवर्तिन्यां दिशि गोपुरस्य पूर्वदिगभिमुखस्य पूर्वारस्यापरेण चापरस्यामदूरवर्तिन्यां दिशि च । प्रासादापेक्षया गोपुरस्य पूर्वत्वाद्गोपुरापेक्षया च प्रासादस्यापरत्वात्प्रासादादारभ्य गोपुरं यावदित्यर्थः ॥ स्नेहाय हेतवे भक्तनिमित्तान्मुदि कारणे । नरेन्द्रदर्शनस्यार्थस्योत्सुकोभून्न कस्तदा ॥ ७४ ॥ ७४. स्नेहाय हेतवे प्रेम्णा हेतुना भक्तनिमित्ताद्वहुमानेन हेतुजा मुदि कारणे हा तोर्यन्नरेन्द्रदर्शनं तस्यार्थस्य मूलराजदर्शनेन हेतुना तदा यात्रारम्भकाले क उत्सुको नाभूत् ।। प्रासाद पर्वेण । गोपुरस्यापरेण । इत्यत्र "द्वितीया" [१७] इत्यादिना द्वितीयापछ्यौ ॥ भनश्चेरिति किम् । प्राक्प्रयाणात् ॥ सरसवेन हेतुना । बेहाय हेतवे । भक्तर्निमित्तात् । दर्शनस्यार्थस्य । मुदि कारणे । इत्पत्र "हेस्वयः" [११८] इत्यादिना तृतीयाद्या विमतयः॥ १डी ता अल . २ बी सी डी ताः सुध. ३ वी पृत्यभू. एफू पृत्या. ४ ए नाहिती . ५ ए प्रस्तुल्या. %
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy