SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २५२ व्याश्रयमहाकाव्ये [मूलराजः] शयोर्वा विद्धः सन् क्षणयोरल्पमानकालभेदयोः क्षणाद्वा । पूर्वो वात्रापि योज्यः । म्रियेत । ये दूरवेध्यवेधिनो महाप्राणाश्चेत्यर्थः । सभावने सप्तमी ॥ सीदतां कर्मणामेयुः । रुदस्सु बालेष्वेयुः । इत्यत्र “षष्ठी वानादरे" [१०८] इति वा पष्टी । पक्षे पूर्वेण सप्तमी ॥ नाकिना नृषु श्रेष्टम् । इत्यत्र "सप्तमी च" [१०९] इत्यादिना षष्टीसप्तम्यौ ॥ अन्ये तु पञ्चमीमपीच्छन्ति । अस्मिभ्यो वरा योधाः ॥ स्थिनैः क्रोशात्क्रोशयोर्वा विद्धः । क्षणाक्षणयोर्वा म्रियेत । इत्यत्र "क्रिया. मध्येध्व" [११०] इत्यादिना पञ्चमीसप्तम्यौ । इह धानुष्कावस्थानमेका क्रिया पुरुषव्यधश्च द्वितीया । तन्मध्ये क्रोशोध्वा । तथा व्यधनमेका क्रिया मरणं च द्वितीया । तन्मध्ये क्षणः कालः ॥ संघदृशीर्णस्त्रीहारैर्मुक्कानां राजवेश्मनि । खार्याः खार्योरप्यधिको द्रोणोर्धेन तदाभवत् ॥ ७० ॥ ७०. तदा यात्रोपक्रमकाले राजवेश्मनि संघटेनान्योन्यं संमर्दैन शीर्णास्युटिता ये स्त्रीहारास्तहेतुभिर्मुक्तानां मुक्ताफलानामधेन घ्याढक्या फॅाधिकोध्यारूढो द्रोण आढकचतुष्कमभूत् । कीदृक् । खार्या मुक्तानामेव द्रोणपोडशकात्वार्योरपि । अपिर्विकल्पार्थः । खारीद्वये वाधिकोध्यारूढवान् । अक्षतक्षेपादिमाङ्गलिक्यविधयेहमहमिकयागतमहेभ्यकुलस्त्रीणामतिबाहुल्यादेवं नाम संमर्दै हारास्त्रुटिता यावता राजगृहागणे मुक्ताफलानामेका द्वे वा खायौं सार्धद्रोणेनाधिके अभूतामित्यर्थः।। १ सी डी भवेत् ।। १ सी डी म्रियते। ये. २ योद्धः । विद्धःक्ष ३ सी क्षणकाल । डी क्षण काल ।। ४ ए बी एफ कत्रोपि. ५ वी पिवि ६ एफ पिविक. ७ बी देनहा ८ ए सी डी झणमु. ९ ए ताखला.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy