SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [है० २.१.२०.] द्वितीयः सर्गः। १४१ युष्मभ्यमस्मभ्यमसौहितस्त्वन्मधुप्मदस्मत्प्रवरस्तथेशः। युप्माकमस्माकमिति ब्रुवाणा अमी नृपास्त्वामधुनोपयान्ति॥२१॥ २१. अमी प्रत्यक्षा नृपा अधुना सेवार्थ त्वामुपयान्ति। किंभूताः सन्तः । ब्रुवाणा: । किमित्याह । युष्माकमस्माकं चेशः स्वाम्यसौ मूलराजो युप्मभ्यमस्मभ्यं च हितोनुकूलः । तथा त्वत् त्वत्तो मद् मत्तो युष्मद् युष्मतस्तथास्मद अस्मत्तश्च सकाशात्प्रवरः शौर्यादिगुणैरुत्कृष्टो वर्तत इति ।। युप्मभ्यम् अस्मभ्यम् । इत्यत्र "अभ्यं भ्यसः" [१८] इत्यभ्यम् ॥ त्वत् । मत् । युप्मत् । अस्मत् । इत्यत्र "डसेश्चात्" [१९] इत्यत् ॥ युप्माकम् । अस्माकम् । इत्यत्र "आम आकम्" [२०] इत्याकम् ॥ अयं स वो नोवति दत्त ईष्टे तथैव वां नौ हित ईट् च ते मे । मिथो जनैरित्युदयनुतस्त्वा पुनातु मूर्यस्त्वमिव प्रभो मा ॥२२॥ २२. हे प्रभो स्वामिन् यथा त्वमुदयन् श्रिया प्रवर्धमानः सन् वर्णाश्रमगुरुत्वेन दर्शनस्तवनादिना पापमलक्षालकत्वान्मा माम् । जातावेकवचनम् । वन्दिजातिं पुनासि । तथा सूर्य उदयन् संस्त्वा त्वां पुनातु । किभूत. सूर्यस्त्वं च । जनैमिथो नुत: स्तुतः । कथमित्याह । स सर्वत्र प्रसिद्धोयं प्रत्यक्षः सूर्यो राजा च वो युष्मान्नोस्मांश्चावति परकृतविन्नोपद्रवादिभ्यो दवतात्वादधिपतित्वाञ्च रक्षति । तथा वो युष्मभ्यं नोस्मभ्यं च दत्ते मनोवाञ्छितं ददाति । तथा वो युष्माकं नोस्माकं चेष्टे चेगो भवति । "स्मृत्यर्थ" [२.२.११] इस्यादिना षष्ठी। यथा वो नोवति दत्त ईष्टे च तथैव वां युवां नावावां चावति युवाभ्यामावाभ्यां च दत्ते युवयोरावयोश्चेष्टे च । तथा ते तुभ्यं मे मह्यं च हितोनुकूलः । तथा ते तव मे ममेट् च स्वामी चेति ॥ १ ए मणत्वे'. २ एफ मेट् स्वा',
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy