SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [है०२.१.५.] द्वितीयः सर्गः। अद्भिः । स्वद्भिः । इत्यत्र "अपोछे" [४] इत्यद् ॥ राः। बहुराभिः । इत्यत्र "आ रायो व्यञ्जने" [५] इत्या. ॥ युष्मासु । अस्मासु । इत्यत्र "युप्मदस्मदोः"[६] इत्याः ।। त्वया मयातित्वयि चातिमय्याः किं तत्र यनिस्पृह आवयोः सः। मिथ्याब्रवीद्यावयोर्वशेहं काचिद्वयस्यामिति खण्डिताह ॥ १३ ॥ १३. किल कश्विच्छठोन्यनायिकासङ्गेन द्वे स्वनायिके वञ्चितवान् । तयोरेका खण्डिता वनितान्तरव्यासनादनागते प्रिये दुःखसंतप्ता नायिका वयस्यां भर्तृकृतसमानापमानलक्षणव्यसनापातेन संजातमैत्र्यां सखीम् । द्वितीयां खण्डितां सपत्नीमित्यर्थः । इत्येवं प्रकारेणाह यथा । आः कष्टं हे वयस्ये । अतित्वय्यतिमय्यन्यनायिकासक्तत्वात्त्वां मां चातिक्रान्ते तत्र शठप्रिय विषये त्वया मया च किम् । न कि चिदित्यर्थः । यद्यस्मादावयोस्त्वयि मयि च विषये स शठो निःस्पृहो निरपेक्षः । ननु सोवादीधुवयोर्वशेहं वर्ते तत्कथमिति ष इत्याह । युवयोवंश आयत्तौ वर्तेहं यद्रवीत्तन्मिथ्यालीकं प्रत्यक्षेणैवमावयोर्वञ्चनात् ॥ त्वया । मया । अतित्वयि । अतिमयि । युवयोः । आवयोः । इत्यत्र "टाड्योसि यः" [७] इति योन्तादेशः ॥ टाड्योसीति किम् । अहम् ॥ युष्मभ्यमस्मभ्यमथो युषभ्यं तथेष्टयुष्मभ्यमथोप्यसभ्यम् । सया प्रियास्मभ्यमदःप्रभातं षड्भ्योपि राजन् भवतात्सुखाय १४ १४. हे राजन् । अद् एतत्प्रभातं षड्भ्योपि सुखाय भवतात् । केभ्यः षड्भ्य इत्याह । युष्मभ्यमथो तथास्मभ्यं तथा युषभ्यमस १ भी मैच्या स. २ ए सी री नायका'. ३ एफ ये त्व. ४ एफ ये शं. ५ वी एफ् यत्तो व. ६ एफ ति यान्ता.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy